पृष्ठम्:रामायणमञ्जरी.pdf/७३

पुटमेतत् सुपुष्टितम्
६४
काव्यमाला।

निर्बन्धात्परुपैर्वाक्यैः कैकेय्या पुनरुक्तितः ।
उवाच विह्वलो राजा सुमन्त्रं मोहमूर्छितः ॥ ७८० ॥
न सुप्तोऽस्मि महामात्य निद्रा शोकवतां कुतः ।
बहिश्चरं जीवितं मे गच्छ राममिहानय ॥ ७८१ ।।
इत्यादिष्टो नृपतिना रथेन जवशालिना।
सुमन्त्रः प्रययौ तूर्ण संशयाकुलिताशयः ।। ७८२ ॥
अभिषेकोत्सवोत्कण्ठाकुले सज्जनवर्त्मनि ।
व्रजन्रामस्य शुश्राव गुणालंकरणं यशः ॥ ७८३ ॥
स राममन्दिरं प्राप्य मेरुकन्दरसुन्दरम् ।
हेमहर्भ्योद्गतोत्तुङ्गप्रभापिङ्गीकृताम्बरम् ।। ७८४ ।।
सेवाप्तानन्तसामन्तसमागमनिरन्तरः ।
शनैः कक्ष्याः समुत्तीर्य प्रापान्तःपुरमान्तरम् ।। ७८५ ॥
प्रविश्यावेदितः सोऽथ ददर्श रघुनन्दनम् ।
सीताकराञ्चितस्मेरचामरोच्छ्वासितांशुकम् ॥ ७८६ ॥
वक्षसा चन्दनार्द्रेण स्फारिहाराट्टहासिना ।
विराजितं निर्झरिणा तटेनेव हराचलम् ॥ ७८७ ॥
विस्फारिधीरललितामाताम्ररुचिरां दृशम् ।
लक्ष्मीविलासहसितं(?) सृजन्तं पद्मिनीमिव ॥ ७८८ ॥
गुणालंकृतचारित्रं सत्त्वालंकृतमानसम् ।
विनयालंकृतैश्वर्य दृष्ट्वालंकरणं भुवः ॥ ७८९ ।।
प्रणम्योवाच विनतं हर्षार्हावाप्तसत्कृतिः ।
सुमन्त्रस्तद्गुणानन्दपुलकालंकृताननः ।। ७९० ॥
धन्या ते जननी राम कौसल्या पुत्रमानिनी ।
अदितेरपि या शङ्के शक्रमातुः स्पृहास्पदम् ॥ ७९१ ॥
देवो दशरथस्तूर्णं कैकेय्या सह मन्दिरे ।
स्थितः स्थितिमतामग्र्यं भवन्तं द्रष्टुमर्हति ॥ ७९२ ॥


१. 'वसति' ख.