पृष्ठम्:रामायणमञ्जरी.pdf/७४

पुटमेतत् सुपुष्टितम्
६५
रामायणमञ्जरी।

श्रुत्वैतत्प्रतिगृह्याशु शिरसा शासनं गुरोः ।
जगाम रामो विपुलः शृण्वन्पौरजनांशिषः ॥ ७९३ ॥
रथेन घनघोषेण गृहोद्यानशिखण्डिनाम् ।
स व्रजन्विदधे क्षिप्रं ताण्डवाडम्बरोत्सवम् ॥ ७९४ ॥
स्फारालंकाररत्नाग्रबिम्बितासंख्यसैनिकः ।
विश्वाकृतिरिवोपेन्द्रः शुशुभे ससुदर्शनः ॥ ७९५ ॥
स भूषणारुणमणिप्रभावलयितो बभौ ।
साक्षाज्जनानुरागेण कृतास्पद इवाबभौ ।। ७९६ ॥
सादराः सुरसुन्दर्य इव पौरवराङ्गनाः ।
पुष्पाणि ववृषुस्तस्मै वातायनविमानगाः ॥ ७९७ ॥
तस्य लक्ष्मणहस्ताग्रसक्तचामरमारुतैः ।
ययौ कपोलकर्पूररजोव्याजैर्दिशो यशः ॥ ७९८ ॥
धनदोऽयं स यक्षेन्द्रः स विष्णुरयमच्युतः ।
अयं कामः स चानङ्ग इत्यूचुः पौरयोषितः ॥ ७९९ ॥
तासां कटाक्षविक्षेपवलयोत्पलधामभिः ।
क्षणं बभूव रामस्य मायूरच्छत्रविभ्रमम् ॥ ८०० ॥
पितुरन्तःपुरं प्राप्य वृद्धकञ्चुकिरक्षितम् ।
पातालमिव रोचिष्णुरत्नां शुकपिशोदरम् ॥ ८०१॥
प्रविश्यालोक्य पितरं प्रणनाम सलक्ष्मणः ।
लिम्पन्निवास्य चरणौ चारुचूडामणित्विषा ।। ८०२ ॥
ततः प्रणम्य कैकेयीं चिन्तानलसमुत्थितैः ।
धूमैरिवागतच्छायं ददर्श वसुधाधिपम् ॥ ८०३ ॥
रामं विलोक्य नृपतिर्बाष्पाविलविलोचनः ।
पुत्रेत्युक्त्वा परं वक्तुं न शशाक ह्रिया नतः ॥ ८०४ ॥
तां वीक्ष्य विक्रियां राज्ञो विसंज्ञ इव राघवः ।
किमेतदिति संभ्रान्तश्चिन्तासंतापमाययौ । ८०५ ॥