पृष्ठम्:रामायणमञ्जरी.pdf/७५

पुटमेतत् सुपुष्टितम्
६६
काव्यमाला।

सोऽब्रवीज्जननीं.नम्रः कैकेयीं रचिताञ्जलिः ।
मातः कुतोऽयं नृपतेर्गम्भीरः खेदविप्लवः ॥ ८०६ ॥
वयमाज्ञाप्रणयिनः प्रतिकूलेषु का कथा ।
निःसपत्नश्च विभवः खेदकारणमुच्यताम् ॥ ८०७ ॥
विनापराधं कुपितो यद्यपुण्यैर्मयि प्रभुः ।
तत्प्रसादय मातस्त्वं ममैनं सुतवत्सला ॥ ८०८ ॥
राघवेनेत्यभिहिते कैकेयी सादरावदत् ।
न विषण्णो नरपतिः कोपसंभावना कुतः ॥ ८०९ ॥
किं त्वेष मे प्रतिश्रुत्य कृतज्ञः प्रवरौ वरौ ।
वाच्यतामनुतापेन प्रयातः सत्यलोभयोः ॥ ८१० ॥
अधुनास्य त्वदायत्तं सत्यवल्लीफलं यशः।
अयशो चा मृषावादात्साधुधिक्कारकर्बुरम् ॥ ८११ ॥
श्रुत्वैतद्विगताशङ्कः समुच्छ्वसितमानसः ।
उवाच रामः कैकेयीमौचित्यामृतसागरः ॥ ८१२ ।।
अहो बत गुरोः कार्ये मदायत्तेऽपि संशयः ।
निजालोकपरिच्छेद्ये रवेरिव तमःक्षये ॥ ८१३ ॥
अहं हि शासनादस्य प्रलयानिलवर्तिनम् ।
विशामि दहनं दीप्तं घोरं वा मकराननम् ॥ ८१४ ॥
इति वादिनमम्लानं सत्वसंपूर्णमानसम् ।
हृष्टा जगाद कैकेयी रामं कीर्तिपराङ्मुखी ॥ ८१५ ॥
देवासुररणे पूर्व मयायं रक्षितो नृपः ।
विततार वरौ तौ च सुचिरादद्य याचितौ ॥ ८१६ ॥
चतुर्दश समा राम तवारण्ये विवासनम् ।
अद्यैव यौवराज्ये च भरतस्याभिषेचनम् ॥ ८१७ ॥
अधुनैव भवान्यातु जटाचीरधरो वनम् ।
व्रज मुञ्च महीपालं सत्यशापपरिग्रहात् ॥ ८१८ ॥


१. 'यशो' शारदा.. २..'भाजनम्' ख.