पृष्ठम्:रामायणमञ्जरी.pdf/७६

पुटमेतत् सुपुष्टितम्
६७
रामायणमञ्जरी।

श्रुत्वेति मातुर्वचनं रामः प्रहसिताननः ।
जगाद दर्शयन्दन्तकान्त्या सत्त्वमिवोज्ज्वलम् ॥ ८१९ ॥
एषोऽसि सज्जो विजनं वनं गन्तुमविक्रियः ।
अविचार्यैव रामस्य कार्यं किं गुरुशासनम् ॥ ८२० ॥
एकैव महती चिन्ता ममेयं ज्वलते हृदि ।
यन्मां कृतागसमिव स्वयं नाभाषते. नृपः ॥ ८२१ ॥
बाष्पदुर्दिनसंसिक्तां क्षितिपः क्ष्मां विलोकयन् ।
करोति मम मौनेन शोकोत्कीर्णान्तरं मनः ॥ ८२२ ॥
भरतो मातुलगृहाद्दूतैर्जवनशालिभिः ।
अभिषेकाय. संभारे तूर्णमानीयतामितः ॥ ८२३ ॥
इति ब्रुवाणं कैकेयी रामं सत्यसुधानिधिम् ।
अद्यैव गम्यतां तूर्णमित्युवाच पुनःपुनः ॥ ८२४ ॥
स सत्यसंकल्पहयं महोत्साहजवं क्षणात् ।
आरूढः सत्त्वधवलं गन्तुं निश्चयमादधे ॥ ८२५ ॥
ततः सवेगबाष्पस्य निःसंज्ञस्य महीपतेः ।
निपीड्य चरणौ रामो निर्ययौ यशसां निधिः ॥ ८२६ ॥
वनवासाहितधिया कोपसंरब्धचक्षुषा ।
स लक्ष्मणेन सहितः कौसल्यामन्दिरं ययौ ।। ८२७ ।।
अभिषेकोत्सुका तत्रदेवताराधनव्रता ।
रामेणावेदितं श्रुत्वा तद्वृत्तान्तं मुमोह सा ॥ ८२८ ॥
प्रतिलभ्य ततः संज्ञां विललापाश्रुगद्गदा ।
चक्रभ्रान्तिपरावृत्तिं वदन्ती सुखदुःखयोः ॥ ८२९ ।।
अहो बत जगत्यस्मिन्वन्ध्या धन्यतराः स्त्रियः ।
याः स्वप्नेऽपि न जानन्ति पुत्रस्नेहविषव्यथाम् ।। ८३० ॥
पूर्णपुण्यगुणप्राप्तः पुत्रलाभः सुधायते ।
तदेति तद्वियोगोग्रकालकूटच्छटा न चेत् ॥ ८३१ ॥