पृष्ठम्:रामायणमञ्जरी.pdf/७७

पुटमेतत् सुपुष्टितम्
६८
काव्यमाला ।

वरं कण्टकिनी जाता जर्जरी विपिने लता।
न त्वेकवत्सा जननी सर्वदा दुःखभागिनी ।। ८३२ ॥
रामोऽपि तनयो यस्याः प्रयाति विजनं वनम् ।
सापि जीवति दुःखेन धिक्स्त्रीणां जीवनं दृढम् ॥ ८३३ ॥
रामो गुणगणारामः पुत्रः पित्रा विवासितः।
माता जीवति तन्मन्ये स्नेहः क्वापि तिरोहितः ।। ८३४ ।।
निधानं स्नेहसंपत्तिं सुखप्राप्तं तथामृतम् ।
वत मे हतभाग्यायाः कृच्छ्रलब्धं पलायते ॥ ८३५ ॥
इति प्रलापिनीं रानमहिषीं पतितां भुवि ।
आश्वास्य रामो विदधे ससंज्ञां धैर्यसागरः ॥ ८३६ ॥
ततो जगाद सौमित्रिः कोपादागतसाध्वसः ।
कल्पान्तोत्क्रान्तमर्यादः कम्पोद्भूत इवाम्बुधिः ॥ ८३७ ॥
व्यसिनीस्थविरो राजा यदि स्त्रीवश्यतां गतः ।
तदस्माकं किमायातं ये त्यजामः खकं पदम् ॥ ८३८ ॥
बलिनोऽपि धिया हीना मत्तप्राया नृपद्विपाः ।
करिणीनामिव स्त्रीणां वश्या यान्ति पराभवम् ।। ८३९ ॥
भरतेन प्रयुक्तोऽयं यदि वक्रो नयक्रमः ।
तत्रेदं गुरुतां याति मम वक्रतरं धनुः ॥ ८४० ॥
स्वयं गृहोपयोग्या श्रीः क्रियतां जृम्भतां तव ।
भुजो भार्गवमत्तेभमदकण्डूयनद्रुमः ॥ ८४१ ।।
लक्ष्मणेनेत्यभिहिते ययाचे जननी पुनः ।
वनवासनिषेधाख्यां रामं जीवितदक्षिणाम् ॥ ८४२ ॥
ततः सत्त्वोदधिः स्फीतयशःपरिचितं वचः ।
धर्म्य समादधे रामः समानं स्वच्छचेतसः ।। ८४३ ।।
कुले महति जातस्य कार्य मे शासनं गुरोः ।
चिच्छेद रेणुकाकण्ठं भार्गवः पितुराज्ञया ॥ ८४४ ॥