पृष्ठम्:रामायणमञ्जरी.pdf/७८

पुटमेतत् सुपुष्टितम्
६९
रामायणमञ्जरी।

वात्सल्यविक्लवा मातर्विषादं मा कृथा वृथा ।
वनवासावधौ वृत्ते प्राप्तं द्रक्ष्यसि मां पुनः ॥ ८४५ ॥
लक्ष्मण क्ष्माभृतां धैर्य गाम्भीर्यं च महोदधेः ।
जाने तव तथाप्येष कोपतप्तोऽभिवीज्यसे ॥ ८४६ ॥
धिक्तान्कुलाधमान्येषु गुरुब्राह्मणशासनात् ।
शठेषु याति शाठ्यत्वं प्रतिषेधविकुण्ठताम् ॥ ८४७ ॥
मनोरथाप्तिः कैकेय्या यथा नॄणां तथा पितुः ।
भवत्येव वनं याते मयि पुण्योदयात्परम् ॥ ८४८ ॥
क्रियतां विमलं चेतः कोपः शान्त्या च वार्यताम् ।
औचित्यचारु चरितं सहजं हि महात्मनाम् ॥ ८४९ ॥
तितिक्षा शोभते सत्यवीर्यविक्रमशालिनाम् ।
प्रभविष्णुपैदानां च महतामिव संततिः ॥ ८५० ॥
भक्तिर्गुरौ धृतिर्दुःखे क्षमा कोपे दया कृशे ।
एतास्ता यशसः शुभ्राः साम्राज्यविभवस्रजः ॥ ८५१ ॥
क्व सन्तः क्व च दौर्जन्यं क्व गुणाः क्व च वक्रता ।
क्व विवेकः क्व पारुष्यं दूरमेतत्परस्परम् ॥ ८५२ ॥
सौजन्यमनसूया च क्षान्तिर्धैर्यमचापलम् ।
इत्येष विदुषामग्रे गुणमानसमुच्चयः ॥ ८५३ ॥
दैवमेव विजानीहि प्रवासे मम कारणम् ।
न हि पौरुषमत्रास्ति किं वृथा कोपसंभ्रमैः ॥ ८५४ ॥
कुर्वतां यद्विपद्यन्ते फलन्ति यदकुर्वताम् ।
कर्माण्यद्भुतशक्तेस्तद्दैवस्येव विजृम्भितम् ।। ८५५ ॥
भरतेन सहेमां त्वं शुश्रूषानिरतः पितुः ।
प्रसीद पालय महीं मद्गिरा गतविक्रियः ॥ ८५६ ॥
इति कोपानलज्वालासंतप्तमनुजं शनैः ।
चकार विज्वरं रामो वाक्यपीयूषवृष्टिभिः ॥ ८५७ ॥


१. 'काठिन्यात्' शारदा०. २. 'सत्यं वीर्यं' शारदा०. ३. 'पदस्थानां' शारदा०.