पृष्ठम्:रामायणमञ्जरी.pdf/७९

पुटमेतत् सुपुष्टितम्
७०
काव्यमाला।

ततः सत्यधृतिर्वीरो दाक्षिण्यैककृतक्षणः ।
उवाच लक्ष्मणो राममनुयात्रासमुद्यतः ॥ ८५८ ॥
आर्य जानीहि मां नित्यं छायारूपमिवानुगम् ।
पौरुषं पूर्वकर्मेव न त्वां त्यक्ष्याम्यहं क्वचित् ।। ८५९ ॥
लक्ष्मणस्येति सुदृढं रामो विज्ञाय निश्चयम् ।
उवाच वीरः कौसल्यां शोकसंतापमूर्छिताम् ॥ ८६० ॥
अनुजानीहि मां मातः सदाचारानुवर्तिनी ।
यथा ते दैवतं भर्ता तथा चायं पिता मम ॥ ८६१ ॥
पुत्रप्रवाससंतापकटुकां वदनात्तव ।
न शृणोति गिरं राजा यथा मातस्तथा कृथाः ॥ ८६२ ॥
इत्युक्त्या पादयोस्तस्याः पपात रघुनन्दनः ।
तत्पादाब्जनखज्योत्स्नां मूर्ध्नि मालामिवोद्वहन् ॥ ८६३ ॥
एवं कथंचिद्गुणवत्पुत्रगौरवयन्त्रिता।
आशीःपुरःसरां माता प्रादादाज्ञामनर्गलाम् ॥ ८६४ ॥
ततो विनिर्ययौ मातुर्मन्दिराल्लक्ष्मणानुगः।
धैर्येण सह चेतांसि जनस्य सहसा हरन् ।। ८६५ ॥
स समेत्याभिषेकार्हव्रतमङ्गलशालिनीम् ।
ददर्शान्तःपुरे सीतामुत्कण्ठाकुलिताशयाम् ॥ ८६६ ॥
विप्रवासकथां श्रुत्वा सा भर्तुः पितुराज्ञया ।
दुःखितापि धृतिं लेभे सह गन्तुं कृतक्षणा ॥ ८६७ ॥
रामस्तामवदद्देवि प्रयाते मयि काननम् ।
सेव्या भवत्या कौसल्या दुःखविस्मारणैर्नयैः ॥ ८६८ ।।
मद्विप्रवासयोगेऽपि न कार्याः परुषा गिरः ।
भरतश्रोत्रगामिन्यः स हि वृत्तिप्रदो नृपः ।। ८६९ ॥
इति पत्युर्वचः श्रुत्वा मैथिली कोपकम्पिता।
उवाचोच्चकुचाधातशीर्णाश्रुकणसंततिः ॥ ८७० ॥


१. 'प्रवासकटकामुद्गतां' ख.