पृष्ठम्:रामायणमञ्जरी.pdf/८०

पुटमेतत् सुपुष्टितम्
७१
रामायणमञ्जरी।

अहो बतार्यपुत्रस्यासदृशं श्रूयते वचः ।
अहो प्रिया. प्रणयिनी कथं त्याज्या सता सती ॥ ८७१ ॥
हर्षोऽनुभूतः पित्रा मे मोहात्परिणये वृथा ।
स्वकीर्तिमिव मां भर्ता त्यक्ष्यतीत्यविजानता ॥ ८७२ ॥
स्वभाग्यभागिनः सर्वे पितृमातृसुतादयः ।
सर्वथा पुरुषाणां तु भार्यैका भाग्यभागिनी ॥ ८७३ ।।
रूपस्य वयसः कान्तः सौभाग्यस्य सुखस्य च ।
जीवितस्य च नारीणां जीवितं परमं पतिः ॥ ८७४ ।।
सुखदुःखानुगां खैरकेलिविस्रम्भसाक्षिणीम् ।
न मामर्हसि संत्यक्तुं चेतोवृत्तिमिवात्मनः ॥ ८७५ ॥
विभूतिस्त्यागहीनेव सत्यहीनेव भारती ।
विद्या प्रशमहीनेव न भाति स्त्री पतिं विना ॥ ८७६ ॥
इति जायावचः श्रुत्वा रामः सुदृढनिश्चयम् ।
वनदोषान्बहुविधान्धोररूपानुदाहरन् ॥ ८७७ ॥
पादयोः पतितां सीतामनुयात्राकृतक्षणाम् ।
तत्सौकुमार्यचकितस्तथेति प्रत्यपद्यत ॥ ८७८ ॥
प्रतिषिद्धोऽपि रामेण यत्नात्प्रणयशालिना।
तत्याजारण्यगमने निश्चयं नैव लक्ष्मणः ॥ ८७९ ॥
स रामशासनाद्दिव्ये जग्राह धनुषी स्वयम् ।
अक्षय्यमायुधं चान्यद्राजा यद्वरुणो ददौ ।। ८८० ॥
ततः सुयज्ञमुख्येभ्यः सरत्नाभरणं धनम् ।
प्रददौ दृढमेवैभ्यो विप्रेभ्यो रघुनन्दनः ।। ८८१ ॥
ब्राह्मणाँस्त्रिजटाद्याश्च गोसहस्रैश्च काञ्चनैः ।
पूरयित्वा यथाकामं सर्वाशाः कल्पपादपः ॥ ८८२ ॥
अभ्येत्य पितरं वीरः प्रलापमुखराननम् ।
ददर्शान्तःपुरस्त्रीभिर्वृतं व्यथितमानसम् ।। ८८३ ॥


१. 'अक्षयं' शारदा०. २. 'वरम्' ख. ३. 'स्रै सका' क. ४. 'रामः' ख.