पृष्ठम्:रामायणमञ्जरी.pdf/८१

पुटमेतत् सुपुष्टितम्
७२
काव्यमाला।

स तमामन्त्र्य विनयात्सानुजो जानकीसखः ।
गन्तुं समुद्ययौ तूर्णं धैर्यादस्खलिताशयः ॥ ८८४ ॥
प्रस्तुते राघवे गन्तुं प्रजानां मानसैः सह ।
बाष्पाम्बुरुद्धनयनो जगाद जगतीपतिः ॥ ८८५ ॥
धनं रत्नानि सैन्यं च राममेवानुगच्छतु ।
लतामिवात्तकुसुमां प्राप्नोतु भरतः श्रियम् ॥ ८८६॥
एतदाकर्ण्य चकिता कैकेयी तमभाषत ।
सत्योपदिग्धमनृतं भवता बत भाषितम् ॥ ८८७ ॥
निःसारं हृतसर्वस्वं दत्त्वा राज्यं प्रतिश्रुतम् ।.
अयशोरेणुविध्वस्तं वचनं किं करिष्यसि ॥ ८८८ ||
रामवात्सल्यदोषेण मा सत्यमनृतं कृथाः ।
ज्येष्ठः सुतो न किं त्यक्तः सगरेणासमञ्जसः ॥ ८८९॥
शापभूताभिभूतायाः श्रुत्वेति वचनं नृपः ।
रामेणाम्यर्थितः सैन्यरत्नदानान्न्यवर्तत ॥ ८९० ॥
ततो जगाद सिद्धार्थो महामात्योऽतिदुःखितः ।
ज्येष्ठपुत्रपरित्यागाद्भग्नं वः सर्वथा कुलम् ॥ ८९१ ॥
चिक्षेप सरयूमध्ये दारकानसमञ्जसः ।
पौराणां तत्क्रुधा राज्ञा निरस्तः सगरेण सः ॥ ८९२ ॥
रामोऽर्हति कथं नाम त्यागं गुणवतां वरः ।
इत्युक्त्वा निःश्वसन्मन्त्री मन्त्रध्वस्त इवाभवत् ॥ ८९३ ॥
ततश्चीराम्बरं रामः कैकेय्या स्वयमर्पितम् ।
सह जग्राह निर्दैन्यो जानक्या लक्ष्मणेन च ।। ८९४ ॥
विलपन्तं समाश्वास्य पितरं मातरं तथा ।
सुमन्त्रप्रेरितेनाथ रथेन पृथुरंहसा ।। ८९५ ॥
रामः प्रतस्थे पौराणां शृण्वन्नाक्रन्दनिःस्वनम् ।
निरीक्ष्यमाणः सास्त्रेण पित्रा विह्वलचेतसा ॥ ८९६ ॥


१. महिपी' शारदा