पृष्ठम्:रामायणमञ्जरी.pdf/८२

पुटमेतत् सुपुष्टितम्
७३
रामायणमञ्जरी।

दृष्टिनष्टे ततो रामे सह स्यन्दनरेणुना ।
निपपात महीपालश्छिन्नमूल इव द्रुमः ॥ ८९७ ॥
स लब्धसंज्ञः प्रलपन्कौसल्यासहितो मुहुः ।
शुशोच निन्दन्कैकेयीं मूर्ता मृत्युमिवात्मनः ॥ ८९८ ॥
इति रामप्रवासनम् ।। १८ ॥
रामोऽपि रजनीमेकामतीत्य तमसातटे ।
गोमतीं प्रातरुत्तीर्य सरयूं चोर्मिमालिनीम् ।। ८९९ ॥
पौरान्प्रणयिनः सान्त्वौर्विनिवर्त्य प्रियंवदः ।
कौसलान्समतिक्रम्य रम्ये मन्दाकिनीतटे ।
इङ्गुदीपादपतले निनायाभिमते निशाम् ॥ ९०० ॥
निषादपतिना तत्र गुहेन गुणशालिना ।
पूजितः प्रणयाचारैः प्रतस्थे विगतनमः ॥ ९०१ ॥
ततो विसृज्य विनयात्सुमन्त्रं सुरथानुगम् ।
पितुर्धैर्य समाश्वासन्संदेशप्रतिपादकम् ॥ ९०२ ।।
प्रीत्या गुहं समामन्त्र्य सुहृदं धृतिसागरः ।
न्यग्रोधक्षीरमाहृत्य जटा बद्ध्वा सलक्ष्मणः ॥ ९०३ ।।
नावा तरङ्गदुर्भङ्गां गङ्गामुत्तीर्य भङ्गुराम् ।
त्रस्तसीताचलापाङ्गभङ्गकर्णोत्पलामिव ॥ ९०४ ॥
न्यग्रोधमूले नलिनीतीरे नीत्वा विभावरीम् ।
गङ्गायमुनयोः संधावतिवाह्यापरां निशाम् ॥ ९०५ ॥
भरद्वाजेन मुनिणा पूजितो विनयानतः ।
तद्गिरा चित्रकूटाख्यं पुण्यं प्राप तपोवनम् ॥ ९०६ ॥
तत्र फुल्ललताकुञ्जमञ्जुगुञ्जद्विहंगमम् ।
विलोक्य काननं रामो जगाद जनकात्मजाम् ॥ ९०७ ॥
इमास्ताः पुष्पहासस्य मदषट्पदनादिनः ।


१. 'भ्रूभङ्गा ख.

१०