पृष्ठम्:रामायणमञ्जरी.pdf/८३

पुटमेतत् सुपुष्टितम्
७४
काव्यमाला ।

मधोः स्मरसंहायस्य विलासोत्सवभूमयः ॥ ९०८।।
पश्येमाः कीर्णकुसुमाः पल्लवाञ्जलिभिः पुरः ।
आतिथ्यमिव कुर्वन्ति मारुतावनता लताः ॥ ९०९॥
दृष्टिसादृश्यसुहृदस्तव बालकुरङ्गकाः ।
नेत्रत्रिभागवलनैः सृजन्तीवोत्पलस्रजः ॥ ९१० ॥
भ्रश्यत्परागवसना मधुपाव्यक्तभाषिणः ।
पवनाघूर्णिता भान्ति मधुमत्ता इव द्रुमाः ॥ ९११ ॥
इत्युक्त्वा दारुभिस्तत्र राघवो लक्ष्मणाहृतैः ।
कृत्वाश्रमे वास्तुपूजां वैश्वदेवोचितां व्यधात् ॥ ९१२ ॥
इत्याश्रमवास्तुपूजनम् ॥ १९ ॥
रथेन रामशून्येन धैर्यशून्येन चेतसा ।
सुमन्त्रः प्रविवेशाथ हर्षशून्यां पुरीं प्रभोः ॥ ९१३ ॥
अरामं रथमालोक्य प्राप्तं भग्नमनोरथाः ।
चुक्रुशुः शोकविवशाः पौरास्तद्गुणरागिणः ॥ ९१४ ॥
प्रविश्य प्रोषितसुखं विच्छायं नृपमन्दिरम् ।
ददर्शान्तर्दशरथं सुमन्त्रः शोकविह्वलम् ॥ ९१५ ॥
तं शोककृष्णपक्षेण निरीक्ष्य क्षयितप्रभम् ।
प्रणम्य राजशशिनं सोऽभवद्व्यथितेन्द्रियः ॥ ९१६ ॥
दृष्ट्वा सुमन्त्रं नृपतिर्वधूभिः परिवारितः ।
रामं त्यक्त्वागतोऽसीति पपात विलपन्क्षितौ ॥ ९१७ ।।
स लब्धसंज्ञः शनकैः पुत्रस्नेहविषार्दितः ।
पप्रच्छ रामवृत्तान्तं सुमन्त्रं बाष्पगद्गदः ॥ ९१८ ।।
स निवेद्य वनं प्राप्तं राममस्मै कृताञ्जलिः ।
तत्संदेशं जगादाथ धैर्यप्रणयनिर्भरम् ॥ ९१९ ॥
अयोध्याभिमुखः कृत्वा राघवः प्रणतोऽञ्जलिम् ।
देव मद्वक्रसंक्रान्तां विज्ञप्तिं विदधे तव ॥ ९२० ॥