पृष्ठम्:रामायणमञ्जरी.pdf/८४

पुटमेतत् सुपुष्टितम्
७५
रामायणमञ्जरी।

तात त्वच्छासनं मूर्ध्ना चिन्तामणिमिवोद्वहन् ।
धन्यः संतोषराज्येऽस्मिन्प्रीतिं प्राप्तः परामहम् ॥ ९२१ ॥
न धैर्यजलधे कार्यः संतापो मद्वियोगजः ।
चतुर्दश समा विद्धि क्षणवत्क्षपिता मया ॥ ९२२ ॥
भरतं प्रति वात्सल्यशैथिल्यं मा कृथा विभो ।
मन्निविशेषं भवता संभाव्यः स च सर्वदा ॥ ९२३ ॥
इति ब्रुवाणे काकुत्स्थे किंचिदागतविक्रियः ।
सौमित्रिर्निःश्वसन्नूचे क्षितिमालोकयन्क्षणम् ॥ ९२४ ॥
चिन्तामणिगुणं पुत्रं त्यजता बत भूभुजा ।
कुलं स्वव्यसनेनेव यशो नीतं दरिद्रताम् ॥ ९२५ ॥
लक्ष्मणेनेत्यभिहिते जानकी सास्रलोचना ।
निरीक्षमाणा दयितं बाला नोवाच किंचन || ९२६ ॥
सुमन्त्रेणेति कथिते व्यथितः पार्थिवो भृशम् ।
हा रामेति निमद्योच्चैर्मोहान्निःस्पन्दतां ययौ ॥ ९२७ ॥
पुनः प्रत्यागतप्राणः श्रुत्वा रामं जटाधरम् ।
जायासखः स संतापाद्विललापाश्रुगद्गदम् ।। ९२८ ॥
शोचंश्च सानुजं राम जानकीं च विशेषतः ।
विलापविशिखैस्तीव्रैर्नृपः कौसल्यया हतः ।। ९२९ ॥
चुक्रोश कृपयाविष्टः कष्टां विपदमास्थितः ।
राहुच्छायोपगूढस्य वहन्नंशुमतः प्रभाम् ॥ ९३० ॥
कृच्छ्रेण प्रययुस्तस्य पञ्च पञ्चत्वकाजिङ्क्षिणः ।
सहस्रयामतां यातास्त्रियामास्तप्तचेतसः ॥ ९३१ ॥
षष्ठेऽहनि ततो राजा शोकसंजातविक्रियः ।
याते निशीथे कौसल्यामवदद्बाष्पगद्गदः ॥ ९३२ ॥
वियोगविषकन्दानां धन्या धैर्यप्रमाथिनाम् ।
रसज्ञा न भवन्त्येव सत्यं सुकृतिनो नराः ॥ ९३३ ॥


१. 'भरतः शारदा०.