पृष्ठम्:रामायणमञ्जरी.pdf/८६

पुटमेतत् सुपुष्टितम्
७७
रामायणमञ्जरी।

ज्योत्स्नाप्रकटिते तीरे ततोऽपश्यमहं पुरः ।
स्यूतं सुवर्णपुङ्खेन शरेण मुनिपुत्रकम् ॥ ९४६ ॥
विप्रकीर्णजटाजूटं नूतनोद्भिन्नयौवनम् ।
क्रन्दन्तं पतितं दृष्ट्वा तमहं व्यथितोऽपतम् ॥ ९४७ ॥
सोऽपि विप्लुतनेत्रो मां विलोक्य पतितं शुचा ।
उवाच मर्मविच्छेदं व्यथाशिथिलिताक्षरम् ॥ ९४८ ॥
अहो वतैकबाणेन तुल्यमेव हतस्त्वया ।
अहमन्धौ च वृद्धौ च पितरावेकपुत्रकौ ॥ ९४९ ॥
तदर्थमहमायातः समाहर्तुमितः पयः ।
मोहाद्धतस्त्वया तौ तु तृषार्तौ किं करिष्यतः ॥ ९१० ॥
राजन्वज्राग्निसंस्पर्श तूर्णमुद्धर मे शरम् ।
संन्यासिनः सशल्यस्य नार्ह मे मरणं मुनेः ॥ ९५१ ॥
इति प्रलपतस्तस्य जीवितावाप्तचेतसः।
मया मन्युरिवाभ्येत्य हृदयादुद्धृतः शरः ।। ९५२ ॥
आकृष्टसायके तस्मिन्व्यावृत्तनयनः श्वसन् ।
व्यथां मयि विनिक्षिप्य द्विजस्तत्याज जीवितम् ॥ ९५३ ।।
पूर्व तदुपदिष्टेन ततोऽहं वनवर्त्मना ।
जलकुम्भं समादाय प्रयातस्तत्पितुः पदम् ॥ ९९४ ॥
तत्रान्धौ दम्पती श्रुत्वा तौ मे शब्दं प्रसर्पतः ।
पुत्रदर्शनसोत्कण्ठौ गद्गदाक्षरमूचतुः ।। ९९५ ॥
चिरेणागच्छता पुत्र भवता केलिशालिना ।
आवयोर्भयसंदेहदोलामारोपितं मनः ॥ ९५६ ॥
एह्येहि यज्ञदत्तास्मत्पाणिसङ्गेन संस्पृश ।
न कोपितः कदाचित्त्वं चिरेण कथमागतः ॥ ९१७ ॥
इति ब्रुवाणयोरग्ने कम्पमानस्तयोरहम् ।
दुःसहं हृदि वाग्वज्रं तद्वृत्तान्त न्यवेदयम् ॥ ९५८ ॥