पृष्ठम्:रामायणमञ्जरी.pdf/८७

पुटमेतत् सुपुष्टितम्
७८
काव्यमाला ।

अहं दशरथः पापः सुकृती न सुतस्तव ।
पुत्रः स ते गजधिया मयैव निहतः प्रियः ॥ ९९९ ।।
अधुना क्रोधजः शापो दुःसहो मयि पात्यताम् ।
अस्य किल्बिषशोकाग्नेरग्रे मन्ये स शीतलः ॥ ९६० ॥
इति श्रुत्वैव गम्भीरदुःखः स्वस्थ इव क्षणम् ।
मामुवाच मुनिर्ध्यात्वा दुर्लङ्घ्या भवितव्यता ।। ९६१ ।।
स्वयमावेदनेनैव पापस्यास्य स्थवीयसः ।
अविज्ञानान्न ते यातं शिरः शतसहस्रधा ॥ ९६२ ॥
नय मां तत्र यत्रासौ शेते त्वद्वाणमारितः ।
मम चक्षुश्च यष्टिश्च जीवितं च प्रियः सुतः ॥ ९६३ ।।
तमहं द्रष्टुमिच्छामि सभार्यः क्षतजोक्षितम् ।
प्राणाः संप्रस्थिताः क्वापि तत्संस्पर्शः कुतः पुनः ॥ ९६४ ।।
इति ब्रुवाणः स मयानीतो जायासखः शनैः ।
तं देशं यत्र तत्पुत्रः क्ष्मामिवालिङ्गय संस्थितः ॥ ९६५ ॥
उन्नम्य वदनं तस्मै समेत्य भृशमाकुला ।
जननी दुःखसंतप्ता वहन्ती जन्मवासनाम् ॥ ९६६ ॥
अहं ते जनकः पुत्र किर कर्णसुधां गिरम् ।
अन्धोऽहं क्व च यास्यामि त्वदालम्बनजीवितः ॥ ९६७ ॥
गतिं पुण्यकृतां वत्स परमां समवान्पुहि ।
त्वया सहावयोर्नूनं त्रिदिवे संगमः पुनः ।। ९६८ ॥
इति प्रलप्य सुचिरं मुनिस्तनयवत्सलः ।
शरीरमस्य सत्कृत्य क्रियां चक्रे यथोचिताम् ॥ ९६९ ॥
ततो दिव्यवपुर्दिव्यं विमानं दीप्तमास्थितः ।
उवाच द्योतयन्व्योम्नि पितरौ मुनिपुत्रकः ॥ ९७० ॥
शुश्रूषयैव युवयोः प्राप्तोऽस्मि गतिमुत्तमाम् ।
नापराधोऽस्य नृपतेरीदृशी भवितव्यता ॥ ९७१ ॥