पृष्ठम्:रामायणमञ्जरी.pdf/८८

पुटमेतत् सुपुष्टितम्
७९
रामायणमञ्जरी।

स्वकृतैः कर्मभिर्जन्तुर्जायते परिवर्धते ।
जीर्यते नश्यति पुनः कर्ता कश्चिन्न कस्यचित् ।। ९७२ ॥
इत्युक्त्वान्तर्हिते तस्मिन्मां वृद्धो मुनिरब्रवीत् ।
अवश्यं नृप भोक्तव्यं पापस्यास्य फलं त्वया ॥ ९७३ ॥
पुत्रशोकेन महता तप्तस्त्यक्ष्यति जीवितम् ।
इत्युक्त्वा दुःखितो देहं सभार्यो मुनिरत्यजत् ॥ ९७४ ।।
इति यज्ञदत्तवधवर्णनम् ॥ २० ॥
सोऽयं ममाद्य कौसल्ये फलितः शापपादपः ।
न हि नाम चलत्येषा विहिता कर्मसंततिः ॥ ९७५ ॥
सज्जाः संनिहिता नित्यं शुभाशुभफलोदयाः ।
तिष्ठन्ति पुरुषस्याग्रे सद्भृत्याः सुभृता इव ॥ ९७६ ॥
एते वियोगशोकाग्नितापक्लेशासहिष्णवः ।
प्राणास्तरलसंचाराः क्वापि गन्तुं समुद्यताः ॥ ९७७ ।।
हा न दृष्टो मया रामः कामं कमललोचनः ।
कुतस्तमिह विक्रान्तं द्रक्ष्यामि पुनरागतम् ।। ९७८ ॥
सीतैव धन्या रामस्य सततं पार्श्ववर्तिनी ।
कीर्तिः सत्पुरुषस्येव धृतिः सत्त्ववतो यथा ॥ ९७९ ॥
हा राम नयनानन्दसुधासंदोहबान्धव ।
विलप्येति मुहुः प्राणांस्तत्याज जगतीपतिः ॥ ९८० ॥
सुप्तं विज्ञाय नृपतिं कौसल्या शोकतापिता ।
तन्निद्राभङ्गभीताभून्निःशब्दप्रविलापिनी ॥ ९८१ ॥
प्रातः प्रबोध्यमानोऽपि सूतमागधबन्दिभिः ।
दीर्घप्रवासरसिकः क्ष्मापतिर्न व्यबुध्यत ॥ ९८२ ॥
ततस्तं विगतश्वासं प्रशान्तमिव पावकम् ।
अपुनर्दर्शनायैव ददर्श महिषीजनः ॥ ९८३ ॥
इति दशरथविपत्तिः ॥ २१ ॥