पृष्ठम्:रामायणमञ्जरी.pdf/९०

पुटमेतत् सुपुष्टितम्
८१
रामायणमञ्जरी।

भरतेनेति कथिते सुहृदश्चकिता अपि ।
ऊचुर्धातुविकारेण स्वप्नानामप्रमाणताम् ॥ ८ ॥
तद्गिरा कृतजप्योऽथ संपूजितसुरद्विजः ।
भरतश्चिन्तयन्नेव चकम्पे स्वप्नदर्शनम् ॥ ९ ॥
अत्रान्तरे प्रविश्याशु दूतास्ते संवृताशयाः ।
वसिष्ठशासनं नूनं सर्वे तेऽस्मै न्यवेदयन् ॥ १० ॥
पितुः सर्वत्र कुशलं तैर्मिथ्यैव निवेदितम् ।
निशम्य मन्त्रं भरतो मातामहमुपाययौ ॥ ११ ॥
पूजितो मातुलेनाथ सैन्येन महतावृतः ।
शत्रुघ्नसहितो वीरः प्रतस्थे नगरीं पितुः ॥ १२ ॥
समुत्तीर्य दिनैः पुण्या नदीः शैलवनानि सः ।
ध्वस्तशोभां ददर्शारादयोध्यां विधुताशयः ॥ १३ ॥
विपद्विवासितमुखां शुष्कम्लानजनाननाम् ।
दूरीकृतालिवलयां शुष्काब्जामिव पद्मिनीम् ॥ १४ ॥
निर्भूषणां निरानन्दां विच्छायां विस्मृतस्मिताम् ।
विधवामिव तां वीक्ष्य शङ्कातङ्काकुलोऽभवत् ॥ १५ ॥
अप्रियाख्यानचकितैधृतः सर्वैरधोमुखैः ।
राजधानीं प्रविश्याथ मातुर्मन्दिरमाययौ ॥ १६ ॥
विलोक्य तत्र कैकेयीं पुत्रदर्शननिर्वृताम् ।
प्रणम्य राजलुब्धां तां पप्रच्छ जनकोत्सुकः ।। १७ ॥
मातर्म्लानमुखः कस्मादकस्मादापदां पदम् ।
उग्रशोकग्रहग्रस्त इवायं लक्ष्यते जनः ॥ १८ ॥
वेणुवीणाम्बरालीनमधुरध्वनिपेशलम् ।
यशः शुभं मृगाक्षीभिः किं तातस्य न गीयते ॥ १९ ॥
वैत्रिणां नामभिर्भूमिपालान्सूचयतां पुरः ।
किं नु न श्रूयते शब्दस्तातस्यास्थानमन्दिरे ॥ २० ॥


१. 'सुखी ख. २. 'मूक' शारदा०, ख.

३. 'र्वृतः' ख. ४. 'पुनः' ख.