पृष्ठम्:रामायणमञ्जरी.pdf/९१

पुटमेतत् सुपुष्टितम्
८२
काव्यमाला।

भरतेनेत्यभिहिते कैकेयी प्रत्यभाषत ।
यशोवशेषतां यातस्तातः सत्यव्रतस्तव ॥ २१ ॥
राम रामेति बहुशो विलप्य विवशो निशि ।
तत्याज जीवितं राजा सह तद्दर्शनाशया ॥ २२ ॥
वने निष्कासितस्तेन नाम रामः सलक्ष्मणः ।
सेहे न चातिधीरोऽपि तद्वियोगविषव्यथाम् ॥ २३ ॥
इति दुःसहवाग्वज्रताडितो भरतस्तया ।
कृत्तः परशुना मूले बालस्ताल इवापतत् ॥ २४ ॥
स लब्धसंज्ञः शनकैश्चकारूढ इव क्षणम् ।
हा तात तातेति मुहुर्विललापाश्रुगद्गदः ॥ २५ ॥
प्रमृज्य नयने तप्तनिःश्वासग्लपिताधरः ।
पुनः पप्रच्छ जननीं निमग्नः शोकसागरे ॥ २६ ॥
आर्येण किं कृतं मातस्तातस्य बत विप्रियम् ।
स संत्यक्तः स्वयं येन तेन स्तेन इवात्मजः ॥ २७ ॥
किंस्विद्गुरुतरं किंचित्कृतमार्येण पातकम् ।
अथ वा रामचरिते कलङ्ककलना कुतः ॥ २८ ॥
पृष्ट्वा सानुनयेनेति भरतेन विषादिना ।
तत्त्वं जगाद जननी स्त्रीभावसरलाशया ॥ २९ ॥
त्वदर्थ याचितो राजा मया रामनिवासनम् ।
अभिषेकं च भवतः स च तत्कृतवान्कृती ॥ ३० ॥
वरप्रदानसत्येन बद्धस्य मयि भूपतेः ।
चरिष्यत्याज्ञया रामश्चतुर्दश समा वने ॥ ३१ ॥
श्रुत्वेति विप्रियं तूर्णं निन्द्यं मात्रा निवेदितम् ।
श्वपाकीगर्भसंभूतमिवात्मानममंस्त सः ॥ ३२ ॥
सोऽवदद्दुःखसंतप्तः सजुगुप्सः स्वजीविते ।
जीवयन्निव चिन्ताग्निं निःश्वासप्रबलानिलैः ॥ ३३ ॥