पृष्ठम्:रामायणमञ्जरी.pdf/९२

पुटमेतत् सुपुष्टितम्
८३
रामायणमञ्जरी।

बत पातकपङ्केन घनेन प्रविसर्पिणा।
भवत्या स्वेच्छया लिप्तं कुलमात्मा यशश्च मे ॥ ३४ ॥
ज्येष्ठो विवासितः पुत्रो दैवतं निहतः पतिः ।
श्वभ्रे निपातितश्चाहमहो युक्तं त्वया कृतम् ॥ ३५ ॥
कुतस्त्वया कदा लुब्धो ज्ञातः पापोऽहमीदृशः ।
यस्मै गुरुवधादिष्टं राज्यमेतत्प्रयच्छसि ॥ ३६ ॥
हा धिङ्मां पतितं पापं शापेन महता हतम् ।
यस्यापवादजननी जननी त्वमपत्रपा ॥ ३७ ॥
धेनोरिवैकवत्सायाः कौसल्यायाः प्रियः सुतः ।
कथं प्रवाजितोऽरण्यं पुत्रिण्यापि स्वयं त्वया ॥ ३८ ॥
गवां माता पुरा देवी सुरभिर्लाङ्गलार्दितौ ।
दृष्ट्वा सुतौ रुरोदार्ता पृष्टा प्रोवाच वज्रिणा ॥ ३९ ॥
कृशौ पुत्राविमौ दृष्ट्वा भुवि कार्षिकपीडितौ ।
सीदामि परमा प्रीतिः पुत्रान्नान्यात्र देहिनाम् ॥ ४० ॥
इत्युक्त्वा बहुपुत्रापि शुशोच सुरभिः पुरा ।
एकपुत्रापि कौसल्या न जाने कथमास्थिता ॥ ४१ ।।
तातस्याहं क्षये हेतुरयशोधूलिधूसरः ।
द्रक्ष्यामि कथमार्यस्य वात्सल्याभिमुखं मुखम् ॥ ४२ ॥
इत्युक्त्वा प्ररुरोदार्तस्तारगम्भीरनिःस्वनैः ।
कुर्वन्भुवनकोणेषु जगत्सिंहगुहाभ्रमम् ॥ ४३ ॥
ततो विदितवृत्तान्तः क्रुद्धो नाग इव श्वसन् ।
जग्राहाभ्येत्य भरतं शत्रुघ्नः पतितं भुवि ।। ४४ ॥
सोऽब्रवील्लक्ष्मणेनैव कृतं सर्वमसांप्रतम् ।
वीरो यः क्लेशवत्सेहे राधवस्य विवासनम् ॥ ४५ ॥
अवध्या जननी योषिदात्महा पापमश्नुते ।
आर्यप्रवासनस्यास्य कष्टं नास्ति प्रतिक्रिया ॥ ४६ ।।