पृष्ठम्:रामायणमञ्जरी.pdf/९६

पुटमेतत् सुपुष्टितम्
८७
रामायणमञ्जरी।


व्यसनं हि तदैश्वर्यं साप्युन्नतिरधोगतिः ।
न यत्र रामपादाब्जरजसा रञ्जितं शिरः ॥ ८ ॥
विश्वरक्षामणिं तस्माज्ज्येष्ठं ज्येष्ठैर्गुणैर्युतम् ।
रामं प्रसादयिष्यामि वनं गत्वा निजश्रिये ॥ ८६ ॥
इति ब्रुवाणमसकृद्भरतं साश्रुलोचनम् ।
प्रशशंसुर्वसिष्ठाद्या मुनयः सह मन्त्रिभिः ।। ८७ ।।
सोऽथ सर्वाः पुरस्कृत्य प्रकृतीः सुकृतोज्ज्वलाः ।
प्रतस्थे स्थिरसंकल्पो वनं वारिजलोचनः ।। ८८ ॥
शनैः प्रसर्पतस्तस्य गजगण्डालिमण्डलैः ।
चरितैरिव कैकेय्या बभूवुर्मलिना दिशः ॥ ८९ ॥
बभूव भूमिपालानां स्वच्छच्छत्रैः सितं नमः ।
भरतस्य गुणोदारं यशो वक्तुमिवोद्गतैः ॥ ९० ॥
व्रजन्वाजिव्रजखुरोद्भूतधूलीपटच्छलात् ।
स्वर्गे दशरथं द्रष्टुं वसुधेवोद्ययौ स्वयम् ॥ ९१ ॥
रथघोषप्रवृत्तानां बर्हिणां बर्हचन्द्रकैः ।
सकटाक्षा इव दिशो ददृशुर्भरतं पथि ॥ ९२ ॥
स ययौ शोधितेनाग्रे वर्त्मना कारुशिल्पिभिः ।
पुण्यैः संमार्जितेनेव सुकृती निजकर्मणा ॥ १३ ॥
प्रयान्तं भरतं दृष्ट्वा रामस्य विनिवर्तने ।
तमेवानुययुः प्रीत्या प्रजास्तद्दर्शनोत्सुकाः ॥ ९४ ॥
सा शस्त्रवीचिनिचया च्छत्रफेनाट्टहासिनी ।
प्राप भागीरथीकूलं शनैर्भरतवाहिनी ॥ ९५ ॥
दिनस्यान्ते संनिविष्टां तामपारां पताकिनीम् ।
गुहो निषादाधिपतिर्दृष्ट्या चिरमचिन्तयत् ॥ १६ ॥
इक्ष्वाकूणामियं सेना तुरङ्गगजगामिनी ।
क्व नु सर्पति वीरेण भरतेनानुपालिता ॥ ९७ ॥


१. 'पुण्येन स्वार्जि' शारदा०.