पृष्ठम्:रामायणमञ्जरी.pdf/९७

पुटमेतत् सुपुष्टितम्
८८
काव्यमाला।


नूनं विभवलुब्धोऽयं रामं हन्तुमुपागतः ।
स्वजनस्नेहहारिण्यः कर्कशा हि विभूतयः ।। ९८ ।।
यद्ययं वक्रसंकल्पः काकुत्स्थमभिधावति ।
अस्य स्पष्टोपदेष्टारस्तदेते राजमन्त्रिणः ॥ ९९ ॥
इति निश्चित्य मनसा निषादाधिपतिर्गुहः ।
उपायनं समादाय प्रययौ भरतान्तिकम् ॥ १० ॥
प्रणम्य भरतं तत्र यथार्हावाप्तसत्कृतिः ।
शुश्राव तस्य संकल्पं स्थिरं रामनिवर्तने ॥ १०१ ॥
भरतस्तद्गिरा श्रुत्वा रामं चीरजटाधरम् ।
नवीभूतमहाशोकः पपात व्यथितः क्षितौ ॥ १०२ ॥
कौसल्याद्यास्ततोऽभ्येत्य मातरः शोकविह्वलाः ।
तं समाश्चास्य शनकैर्निःशब्दं शुशुचुर्निशि ॥ १०३ ॥
अथापरेऽह्नि भरतो रामसंदर्शनोत्सुकः ।
ययौ गुहोपदिष्टेन गङ्गामुत्तीर्य वर्त्मना ॥ १०४ ॥
स प्रविश्य घनच्छायं प्रयागं नाम काननम् ।
भरद्वाजाश्रमं प्राप लीलोद्यानं तपःश्रियः ॥ १०५ ॥
विद्यावेश्मनि स प्राप निर्मिते विश्वकर्मणा ।
दिव्यां देवोपचाराही भोगसंभोगसंपदाम् ॥ १० ॥
गन्धर्वगणगीतेन नृत्येन सुरयोषिताम् ।
स प्राप्य विपुलां प्रीतिं प्रतस्थे प्रातरुत्सुकः ॥ १०७ ॥
पश्चाद्रजन्तं दृष्ट्वास्य महर्षिर्जननीजनम् ।
तमपृच्छद्विभागेन पृष्टश्च भरतोऽभ्यधात् ॥ १०८ ॥
इयमार्यस्य कौसल्या माता जिष्णोरिवादितिः ।
माता यस्य न लोकेऽस्ति यशसामथ तेजसाम् ॥ १०९ ॥
इयं सुमित्रा भगवन्वीरवृत्तिरिवोचिता ।
यस्या लक्ष्मणशत्रुघ्नौ वीर्यौदार्यचितौ सुतौ ॥ ११० ॥