पृष्ठम्:रामायणमञ्जरी.pdf/९८

पुटमेतत् सुपुष्टितम्
८९
रामायणमञ्जरी।


जनापवादजननी ममेयं जननी विभो ।
कैकेयी दुस्तरे क्षिप्तो ययाहं शोकसागरे ॥ १.११ ॥
शोकान्तेनेति कथितं भरतेन मुनीश्वरः ।
कारणं दैवमेवात्र न कैकेयीत्यभाषत ॥. ११२ ॥
कानने चित्रकूटाख्ये रामं ज्ञात्वा मुनेर्गिरा ।
स्थितं स्थितिमतामग्र्यः प्रतस्थे भरतस्ततः ॥ ११३ ॥
स ससर्प सरत्सेनासमुद्रोत्तुङ्गवीचिभिः ।
धूतध्वजपटैः कुर्वन्कीर्ति पल्लवितामिव ॥ ११४ ॥
धूमालीं चित्रकूटस्य भूभृतस्तस्य सर्पतीम् ।
दूरादालोक्य भरतो रामाश्रमममन्यत ॥ ११५ ।।
इति भरतयात्रा ॥२॥
अत्रान्तरे वनान्तेषु पश्यन्कान्ततमाः श्रियः ।
विजहार विलासाङ्को राघवो दयितासखः ॥ ११६ ॥
स सीतावदनाम्भोजसक्तलोचनषट्पदः ।
उवाच दन्तकिरणैर्मूर्त हर्षमिवोद्धमन् ॥ ११७ ।।
इयं श्रीर्गिरिराजस्य तारनिर्झरहारिणी ।
भाति भूतिर्गजस्येव मनोनयनहारिणी ॥ ११८ ॥
विकासिकुसुमस्फूर्जद्रजःपुञ्जोपजीविनः ।
एते त्वद्वदनामोदसोदरा वान्ति वायवः ।। १.१९ ॥
इयं विलासवसतिर्विलोलालिकुलालका ।
शिरीषवल्ली पुंनागं त्वमिवालिङ्ग्य मां स्थिता ॥ १२० ॥
रजोभिः कौसुमैर्दिक्षु स्फारकर्पूरपाण्डुरैः ।
एते विभान्ति तरवः सन्तः सच्चरितैरिव ॥ १२१ ॥
गायतीव सरस्यैषा शासनं नवमल्लिका ।
बालिकाकलिकाकोटिसक्तशिञ्जानषट्पदा ॥ १२२ ॥


१. 'र्दूत' शारदा, ख.

२. 'यशांसि' ख.