पृष्ठम्:रामायणमञ्जरी.pdf/९९

पुटमेतत् सुपुष्टितम्
९०
काव्यमाला।


इमाः कुसुमसंभारभूषिताः पुष्पधन्वनः ।
व्यक्तं रतिसहायस्य भान्ति विश्रान्तिभूमयः ॥ १२३ ॥
स्तवकस्तनसंसक्तपल्लवावर्जिताञ्जलिः ।
धवं प्रसादयत्येषा कुसुमावनता लता ॥ १२४ ॥
पुष्पश्रीर्मधुपालापः कलकोकिलकूजितम् ।
सेयं मदनकन्दस्य सुधासेकपरम्परा ॥ १२५ ॥
पश्य गङ्गामनङ्गारिजटापटलमालिकाम् ।
आनन्दजननीमस्य गिरेर्दूतामिव श्रियम् ॥ १२६ ।।
त्वङ्गत्तरङ्गभ्रूभङ्गभङ्गैरेषा विभाव्यते ।
गाढं गौरीपरिष्वङ्गात्कुपितेव पिनाकिनः ॥ १२७ ॥
लसत्कुसुमहासिन्यो विलासिन्यः सविभ्रमाः।
कूले नृत्यन्ति पश्यास्याः पवनाकुलिता लताः ॥ १२८ ॥
वैदुष्यं शीलवृत्त्येव धृत्येव महतां मनः ।
आभिजात्यं विभूत्येव भूषितं वनमेतया ॥ १२९ ॥
एते त्रिपथगातीरतारशीकरमारुताः ।
अमुक्तमौक्तिकलतां कुर्वन्तीव वनश्रियम् ।। १३० ॥
निषसाद निगद्येति चारुतीरशिलातले।
अङ्के शशाङ्कवदनां जानकीं विनिवेश्य सः ॥ १३१ ॥
मनःशिलां शिलापार्श्वे कराग्रेणावधृष्य सः ।
ललाटे तिलकं तस्याश्चक्रे बालेन्दुसुन्दरे ॥ १३२ ॥
सुचारुतिलकोदारं वदनं हरिणीदृशः ।
निमेषदोषशून्याभ्यां नेत्राभ्यां स चिरं पपौ ॥ १३३ ॥
सा कपित्रासलोलाक्षी कण्ठे जग्राह राघवम् ।
गाढप्रियपरिष्वङ्गखर्वीभूतपयोधरा ॥ १३४ ॥
तस्याः कटाक्षविक्षेपैरदूरपरिसर्पिणाम् ।
बर्हिणां बर्हभारेण बभूव पुनरुक्तता ॥ १३५ ॥


१. 'एवं शारदा०; 'एन' ख.