पृष्ठम्:रावणार्जुनीयम्.djvu/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ वा चक्यषः ॥ ९० ॥ लोहितायमानसर्वाङ्गः सिन्दूरसङ्गान्मतङ्गजैः । लोहितायतीशितुः संध्येब पृथ्वी बिचारिणी ॥ ७० ॥ द्युद्भयो लुङि ॥ ९१ ॥ खगे यद्वडवद्युतद्देवराजो व्यद्योतिष्ट द्रव्यराजैौ यथाद्रौ । गच्छन्नेष प्रध्वनन्भूरितूर्यस्तद्वद्राजा राजते राजमार्गे ॥ ७१ ॥ इति मुदितजनोक्ताः श्रोत्ररम्या गिरस्ता गुरुविरहभियेव व्यर्थमन्वीयमानाः पुर्याः ॥ ७२ इति श्रीकाश्मीरिकभट्टभीमविरचिते रावणार्जुनीये महाकाव्ये भूवादिपादे द्वितीयः सर्गः आकडारादिपादे (प्रथमाध्यायचतुर्थपादे) तृतीयः सर्गः । ततः पुरीतः पुरुहूतविक्रमः क्रमेण राजा कृतसर्वकौतुकाम् मदान्धमातङ्गविलासगामिनीं बधूमिवादाय चमू विनिर्ययौ ॥ १ ॥ (अतः परै नदीसंज्ञा ) यू ख्याख्यौ नदी ॥ ३ ॥ नेयडुवङ्स्थानावस्त्री ॥ ४ ॥ श्रियः प्रियो विष्णुरिवायतधुवः परखिया विभ्रमहारिपौरुषः । प्रियं भविष्णुर्यशसा शरीरिणां रराज राजा नगराद्विनिर्गतः ॥ २ ॥ वामि ॥ ५ ॥ श्रीणां ददः शश्वदुपश्रुतेभ्यो हन्ता श्रियां यो युधि विद्विषां च । खुराग्रलनानि ययुर्यदश्वास्तृणानि पिष्ट्रा युधि शुष्कपेषम् ॥ ३ ॥ ङिति हस्वश्च ॥ ६ ॥ यस्य श्रियै लाघितवान्महेन्द्रः शत्रुश्रिये यः कृतवानसूयाम् । अधीयमस्याध्वनि चूर्णपेषं पिपेष पाषाणमयत्खुराप्रैः ॥ ४ ॥ भूम्याः समीरेण विकीर्यमाणं दृष्टर्विघाताय विजूम्भमाणम् । तिरोहिताकै सहसा जनानां रजस्तदन्थंकरणं बभूव ॥ ५ ॥ ] रावणार्जुनीयम् (अतः परै धिसंज्ञा ।) | भानोर्दिवि प्रस्फुरितांशुराशेदृष्टः पटौघप्रविघातदक्षम् कि कौशिकस्य प्रीत्यै रजः संविदधेऽन्धकारम् ॥ ६ ॥ एव ॥ ८ ॥ अहर्पतेव्योंगविनि) पश्मिजालं छिदां गतं संप्रतितिक्षितव्यम् । अहांचकाराकुलभावमासः पथां जनः पांसुनिरुद्धदृष्टिः ॥ ७ ॥ (अतः परै भपदसंशे ।) सुप्तिङन्तं पदम् ॥१४॥ नः क्ये ॥१५॥ सिति च ॥ १६ ॥ राजीयते तत्र नरः स कश्चिद्भवदीया समवेति चोपरिज्ञा । पृतनारजसाकुलेऽभिजज्ञे कुरुते मोहमहो रजोविवृद्धिः ॥ ८ ॥ स्वादिष्वसर्वनामस्थाने ॥ १७ । याचि ॥ १८ ॥ भम् तसौ मस्वर्थे ॥ १९ ॥ तं बलस्य महिमानमप्रतो राजभिः समवलोक्य निश्चितम् । अत्र राज्ञि सफला सुराजता या मरुखति निबद्धसंस्थितिः ॥ ९ ॥ बहुषु बहुवचनम् ॥ २१ ॥ ोकयोद्विवचनैकवचने २२ न तरवो न तरू न तरुस्तथा ददृशिरे न दवीयसि नान्तिके । इति निराकृतदृष्टि शरीरिणां क्षितिरजःपटलं स्म तमीयते ॥ १० ॥ (अतः कारकाधिकारः ) कारके ॥ २३ ॥ धुवमपायेऽपादानम्॥ २४ ॥ भीत्रा थर्थानां भयहतुः ॥ २९ ॥ भूम्या दिवं रेणुचयः प्रयातस्ततो भयेनाविचलास्त सेना । ऋायेत तस्मादचिराद्यदि स्यादाकालिकी वारिदजालवृष्टि ॥ ११ ॥ पराजेरसोढः ॥ २६ ॥ वारणार्थानामीप्सितः ॥॥ २७ अन्तधौं येनादर्शनमिच्छति ॥ २८ ॥ जनिकर्तुः प्रकृ तिः ॥ ३