पृष्ठम्:रावणार्जुनीयम्.djvu/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला रेणूचयात्पथि पराजयते स्म कश्चि दन्तर्दधे करिवरादपरोऽश्वसादी । जातं कपोलफलकान्मदवारि, तस्मा दृङ्गान्यवारयदिभश्चलकर्णतालः ॥ १२ ॥ १भुवः प्रभवः ।। ३१ । आाख्यातोपयोगे ॥ २९ ॥ दिवाकराद्यत्मबभूव तेजस्तत्रावरुद्धे रजसा सकोपम् । रुजं स चेतीकुरुते स्म सादी गुरोरधीती न स कौशलेन ॥ १३ ॥ कर्मणा यमक्षिप्रैति स संप्रदानम् ।। ३२ त्य नां प्रीयमाण घनैरिवाम्भो मदबारि दन्तिभिर्ददद्भिरुव्यै शमितं शनै रजः । तथाश्ववक्रच्युतफेनविन्दुभी रुचि नृपायेव तदांनुवर्तिभिः ॥ १४ ॥ श्लाघहुड्स्थाशपां ज्ञीप्स्यमानः ॥ ३४ ॥ स(श)श्लाघे धुतरजसे पथो(थे)जनौघः संप्रीत्या न पथिगुणाय निडुते स्म। सर्वस्मै प्रतिमुखमागताय तस्थे ध्वस्ताय क्षितिरजसे तथाप्यशप्त ॥ १६ ॥ धारेरुत्तमणैः ॥ ३५ ॥ स्पृहेरीप्सितः ॥ ३६ ॥ न स तत्र विभूतिभाजि सैन्ये पुरुषो धारयते स्म यः परस्मै । अत एव ययौ विवृद्धतोषः स्पृहयंस्त्यागगुणाय पार्थिवस्य ॥ १६ ॥ कुधदुहेष्यसूयार्थानां यं प्रति कोपः ॥ ॥ ३७ मुखच्छदाभे रजसि प्रशान्ते चुक्रोध दन्ती प्रतिदन्तिने यः । आधोरणेनाशु विवर्तितोऽसावदुह्यता भूपतये प्रसह्य ॥ १७ ॥ श्रीमन्तमालोक्य परं तदानीं नैवैष्र्यदस्मै नृपभृत्यवर्गः । खभर्तृभावाहितसाधुचेता नैवाभ्यसूयामकृत द्विपेऽपि ॥ १८ ॥ भङ्क्त्वा खितं वर्म गजं विलोक्य तत्राभिचुक्रोध नरतदिभ्यम् धिक्त्वामभिद्रह्मसि पाप यस्त्वमात्मानमित्थं निजगाद चैनम् ॥ १९ १. ‘अनुकर्तृभिः' इति पाठो भवेत्. ] रावणार्जुनीयम् राधीपक्ष्योर्थस्य विप्रश्नः ॥ ।। ३९ ऐलिष्ट तदिष्टबान्धवेभ्पो हृदयं विभ्रदसुस्थमार्दूचेता ॥ २० ॥ पूर्वस्य कर्ता ॥ ४० सुहृदा पथि कश्चिदबितोऽन्यः प्रतिशुश्राव तदाशु सर्वमस्मै । तरमयाचतापरोधं तसैम सादरमाश्रृणोत्तदुक्तम् ॥ २१ ४१ ध्वनितं पटहेन यन्नपस्य प्रतिशब्देन तदाशु कुखभाजा । सपदि प्रत्यगृणादिवाब्धिधीरम् ॥ २२ ॥ साधकतमं करणम् ।। ४२ ॥ दिवः कर्म च ॥ ॥ ४३ निर्जगाम तुरगेण सैन्यतः खल्पसैनिकपरिच्छदो नृपः । देवितुं मृगकुले शनै:(रैः) शरान्दीव्यतश्च नृपतीन्निरीक्षितुम् ॥ २३ ॥ परिक्रयणे संप्रदानमन्यतरस्याम् ॥ ४४ ॥ एकेन पादाङ्कशतेन कश्चिदश्धं परिक्रीतमुपांरुरोह । अधोऽपि पादाङ्कशताय तस्माद्वरं परिक्रीतमवाप वाहम् ॥ २४ ॥ आधारोऽधिकरणम् ॥ ४५ ॥ आस्थितस्य तुरगे महीपतेरूध्र्वपूरमभिपूरितौ शरैः । आहितावुभयतस्तुरङ्गमं भानवीं रुचिमवापतुः पराम् ॥ २६ ॥ आधिशीड्स्थासां कर्म ॥ ४६ ॥ यमधिशिश्ये मृगकुलं विभयमध्यास्त यं भूपतिः खयम् । नाध्यतिष्ठत्तं वनोद्देशमन्यो नृपाप्रतीक्षया ॥ २६ ॥ ॥ ४७ धृतसशरशरासनेऽपि लोके मृगवधकौतुकौतुकानुरागे । किमभिनिविशते पुरा न हिंसां प्रभुरवशे महतां कुतोऽथ वास्था ॥ २७॥ उपान्वध्याड्वसः ॥ ४८ ॥ उपवसति सदा यं सिंहसंघो वनान्तं यमधिवसति वीर्य सिंहसंघं च नित्यम् । १. ‘नृपप्रतीक्षया' इति भवेतू.