पृष्ठम्:रावणार्जुनीयम्.djvu/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२ अ० १ पा० ४ स७रावणार्जुनीयम् २९ २८ खे सहस्रगवमण्डलमार्क तेजसायतसहस्रभुजीं भूपतिर्दधदुवाह वधूनां सौम्यतां च रतये बहुचन्द्रम् ॥ ३८ ॥ कुत्सितानि कुत्सनैः ॥ ५३ ॥ दाक्षिण्ययुतोऽम्बुमज्जनेहो राजा तामपि रञ्जयांबभूव । अत्रापि कृता न रूपसिद्धिवैयाकरणखचिनेव धात्रा ॥ ३९ ॥ पापाणके कुत्सितैः ॥ ९४ अपापचेष्टं स विलासिनं जनं सरिज्जलं चानण)कसखवर्जितम् । अवाप्य रेमे सुतरां नराधिपो न तोषयेकं गुणवत्समागमः ॥ ४० ॥ उपमानानि सामान्यवचनैः ॥ १५ ॥ प्रियङ्गौरेषु वधूस्तनेषु सक्तोऽपि जज्ञे न सरोजरेणु को वात्मभं लभते समाने ॥ ४१ ॥ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥ १६ ॥ उच्चान्तपुष्यश्चलपुष्कराग्रः करीव तेनाहृतसान्द्रपर्कः क्षोभं समानीयत वारिराशिः क्षिप्रं वैरव्याघ्रसमागमेन ॥ ४२ ॥ विशेषणं विशेष्येण बहुलम् ॥ ५७ ॥ कान्त्या समानत्वमपि श्रितानां सृष्टानि राज्ञः सुवधूजनस्य । सविभ्रमानीति विलोचनानि नीलोत्पलानामुपरि क्षितानि ॥ ४३ ॥ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्व५८ प्रियेण पूर्वालपनेन काचित्संमानितां वीक्ष्य तदापरत्रीम् । चुकोप पत्ये प्रथमव्यलीकं सुदुःसहं नो चरमापराधः ॥ ४४ ॥ जघन्यमेकं सलिलेन लम्बिता समाननारीभिरुदीक्षितापरा। वधून मध्यानुनयैर्न चोत्सनै रुपं जहौ वीरवरेण रोषिता ॥ ४५ ॥ श्रेण्यादयः कृतादिभिः ॥ ६९॥ श्रेणीकृता खानविधं वधूनां सुगन्धिनिश्वासहता द्विरेफाः निपेतुरास्येषु विमुच्य पद्मन्गुणार्थिनो गुण्यतमान्भजन्ते ॥ १९ ॥ १. ‘सहस्रभुजीकःइति भवेत्, १. ‘नरव्याघ्र' इति पाठः प्रतीयते. ३. ‘जघन्य सेकं सखेिन कम्भिता' इति पठनीयम. ४. श्रेणीशब्दो दीर्घान्तोऽपि. क्तेन नञ्विशिष्टेनानद ॥ ६० ॥ कृताकृतं सर्वमचिन्तयित्वा पराभ्रमन्यः परितः स्त्रियस्ताः मुखेन्दुशोभापरिभूतपझा गतागतं वारिणि तत्र चक्रुः ॥ ४७ ॥ सन्महत्परमोत्तमोस्कृष्टा पूज्यमानैः ॥ ६१ ॥ सदास्यभाजः सुमहापयोधराः श्रिता नदीं तां परमाजमालिनीम् । येत नृपेणोत्तमनायकेन ताः श्रियं तदोत्कृष्टगुणां दधुः स्त्रियः ॥ १८ ॥ वृन्दारकनागकुञ्जरैः पूज्यमानम्।६२।कि क्षेपे ॥६४॥ नरेन्द्रवृन्दारकमम्बुमध्ये तं भृत्यरागाहितरक्षमेकम् । विलोक्य लोकः पैर जरारिं मेने सुरेशं दिवि किंसखायस् ॥ ४९ ॥ पोटयुवतिस्तोककतिपयष्टिधेनुवशावेहड़कय णीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः ॥ ६५ ॥ जलाभिषेकाहितशीतकम्पा स्त्रीस्तोकभाजं सैहमेत्य प• । उपेक्षमाणं नरभृतंमन्या समालिलिङ्गाशु विमुच्य मानम् ॥ १० ॥ केतिपयतिमिसंयुते समन्तादलियुबतिस्रजसेविताञ्जराशौ । पयसि करिवशेब काचिदेका अमति पुरा नु सखीजनं मिशहा ॥ ११ ॥ मूकत्वमासाद्य जलप्रसङ्गान्नारीजनस्योत्तरतस्तटानि । हंसमवद्धस्तनितं न वद्ध शिलां दधुः प्रागिव नूपुराणि ॥ १२ ॥ शिलीमुखाध्यापकतो गृहीतैः प्राप्येव पद्माकरमङ्गनानाम् विनिर्यतीनां नूचना निनादैर्विपूरयामासुरलं दिगन्तान् ॥ १३ तस्मै जनायान्तिकमागताय स्वादूनि देहक्लमनाशकानि सुखोपभोग्यानि चिराय रेवा पयांसि गोधेनुरिवादितैका ॥ १४ ॥ प्रशंसावचनैश्च ॥ ६६ ॥ पझाकराभ्याशमुपागतानां विलोक्य राज्ञा निजसुन्दरीणाम् चिराय दूरं विजितं विजज्ञे हंसप्रकाण्डस्य गतं गतेन ॥ ११ ॥ १. ‘भूख नाग' इति पठनीयम् . २. 'नरकुञ्जरा' इति भवेत्. २. ‘सहभपोटा' इति भवेत. ४. ‘धूर्तशब्दोऽकुत्सार्थः इति काशिका. ५. ‘तिमिकतिपय' इति पठनीयम् । ६. ‘इंसप्राकृत नितं नु बढ्' इति पठनीयम् ७. ‘रशना' इति पठनीयम्