पृष्ठम्:रावणार्जुनीयम्.djvu/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । युवा खलतिपलितवलिनजरतीभिः ॥ ६७ ॥ युवतिभिरुपगम्य मध्यभागं युवखलतिरिवाञ्जिनी विरेजे प्रतिदिशमक्षतचारुपत्रशोभा ॥ १६ ॥ त्वरितपदमुपेत्य मूर्नेि सख्या पुनरवतरणाय वारिराशौ युवपलितेव कृताङ्गना चिराय ॥ १७ ॥ स्खलितगतिरुपेतदेहकम्पा परमपरिस्फुटभाषिणी विनम्रा । अभिसलिलनिमजनात्तशीता युवजरतीव समुत्ततार नारी ॥ १८ ॥ कृत्यतुल्याख्या अजात्या ॥ ६८ ॥ वण वर्णेन॥ ६९ ॥ पानीयशीतं परितः प्रवाहं महीपतिस्तुल्यमहान्तमाप्य । रेमे स हंसालिवितानसेव्यं सितासितं पद्मवनं दधानम् ॥ १९ ॥ कुमारः श्रमणादिभिः ॥ ७० ॥ चतुष्पादो गाभि- ण्या ॥ ७१ ॥ या भीत्यभीता()करिणीव शीघ्र गोगार्भिणीव कचिदेत्य मन्दम् । कुमारतामप्युपसेव्यमाना खातो मुदेऽभूपतेर्नदी सा ॥ ६० ॥ मयूरव्यंसकाद्यश्च ॥ ७२ ॥ या मयूरव्यंसकैर्युता वर्षायमाना पतजला । सकमला शरद्यमाना वा हंसन्नजैरैक्षि भूभुजा ॥ ६१ ॥ सै चिरमिति विहृत्य प्रीतये प्राणभाजां सरसिरुहपरागत्रातपिङ्गाङ्गकान्तिः । सरितमवनिनाथस्त्यक्तमिच्छुः प्रतस्थे दिनमपि दिनभर्ता गन्तुमस्ताचलेन्द्रम् ॥ ६२ ॥ इति श्रीरावणार्जुनीये महाकाव्ये समर्थपादे चतुर्थः सर्गः ॥ ४ ॥ १. ‘कुमारतापस्युपसेव्यमाना’ इति पाठः प्रतीयते. २. ‘सुचिर' ख . [२ अ० २ पा०६ स०] रावणार्जुनीयम् । द्वितीयाध्यायस्य द्वितीयपादे पथमः सर्गः । त्तरमेकदेशिनैकाधिकरणे ।। १ ।। अवनेरवमुच्य पूर्वकायं किरणौधोऽपरकायमाप भानोः । तमनुप्रययुस्तमांसि दूरे करिवृन्दानि शनैर्भियेव सिंहम् ॥ १ ॥ तमसाधरकायमावृतं तं किरणैरुत्तरकायमातर्कान्ति गेिरवो दधुरानते पतङ्गे धृतराििदनविभ्रमाः समन्तात् ॥ २ ॥ अध नपुसकम् ॥ २ ॥ मृदुतेजसि लोहितायमाने शनकैर्याति रवावुपास्तशैलम् । गगनेषु विमूर्छनावनानां तिमिरेण कृतार्धशर्वरीव ॥ ३ ॥ देतीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ३ ।। द्वितीयवापीं दयिता वनान्ते वापीद्वितीयं च रथाङ्गनामा । दीनावयातां करुणौ रुवन्तौ कस्याथ वा प्रेम न दुःखहेतुः ॥ ४ ॥ आशातृतीयं परिहातुकामः पश्चात्पतङ्गः परिहीनशक्ति । प्राग्ध्वान्तसंतापवशादिवौष्ण्यं तृतीयपृथ्व्याः प्रतिसंजहार आशाचतुर्थ सवितर्युपेते चतुर्थशैले परिदृश्यकान्तौ । विमूर्छिता दिक्तिमिरेण पूर्वा कृष्णेन वाच्छाद्यत कम्बलेन ॥ ६ ॥ वियैतुरीयं सविता प्रमुच्य स्थितस्तुरीयास्तमहीध्रश्ङ्गे । विलोक्य लोकं तमसाभिभूतं क्रोधादिवारक्ततरो बभूव ॥ ७ ॥ प्रासापन्ने च द्वितीयया ॥ ४ ॥ प्राप्तध्वान्तां पद्मिनीं म्लानपद्मां ध्वान्तमाप्तां दीर्घिकां चावलोक्य । र्जग्मुः क्षिप्रै पक्षिणः कापि दूरादापत्प्राप्त सेवते कश्चिदेव ॥ ८ ॥ संसुप्तमलोदरवासधानि खकान्तमापन्नसुखं विलोक्य । भृङ्गी सुखापन्नतराशु जाता न कस्य रत्यै रहसि प्रियाप्तिः ॥ ९ ॥ कालाः परिमाणिना ॥ ५ ॥ १. ‘कान्तिम्’ इति भवेत्, २. ‘रुदन्तौ' ख. ३. ‘सूत्रस्थतुर्थशब्दस्तुरीयशब्द स्याप्युपलक्षणम्’ इति काशिका. ४. ‘जगदुः' ख.