पृष्ठम्:रावणार्जुनीयम्.djvu/२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

THE TU [0 ] 4ा ) Head Pandit and superintendent, sanskrit Department, 0riental College, Lahore, 68 1900 . ] 1847 अस्म हे रावणार्जुनीयस्य, अर्जुनरावणीयस्य वा महाकाव्यस्य कर्ता भट्ट ौमः, भट्टभीमो वा कस्मिन्काले कस्मिन्देशे कं भूमिण्डलमलंचकारेति सम्य चकया निश्चेतुं न शक्यते. तथापि १०२८ मितात्त्रिस्तसंवत्सरादारभ्य १०८० मित अन्नसंवत्सरपर्यन्तं वर्तमानेऽनन्तरराजराज्यसमये कश्मीरेषु समुदूतस्य व्यास दासापरनाम्रः क्षेमेन्द्रस्य ‘सुवृत्ततिलकनान्नि ग्रन्थे तृतीयविन्यासारम्भे ‘शास्त्र काव्यं शास्रकाव्यं काव्यशास्त्र च भेदतः । चतुष्प्रकारः प्रसरः सतां सारखतो मतः ॥ २ ॥ शास्त्र काव्यविदः प्राहुः सर्वकाव्याङ्गलक्षणम् । काव्यं विशिष्टशब्दार्थसाहित्यसदलंकृति ॥ ३ ॥ शास्रकाव्यं चतुर्वर्गप्रायं सर्वोपदेशकृत् । भट्टि-भौमककाव्यादि काव्यशास्त्रं प्रचक्षते ॥ ४ ॥’ इत्यत्र भौमकस्य नान्न उपलम्भात्ततः प्राक्तनत्वं प्रतीयते. अस्य काव्यस्य कार्त वीर्यार्जुनरावणयुद्धवर्णनव्याजेन वैदिकसूत्राण्यपहाय सर्वेषामष्टाध्यायीस्थविधिसूत्रा णामष्टाध्यायीपाठक्रमेणैवोदाहरणानि प्रदर्शितवतः काव्यशास्त्रत्वं क्षेमेन्द्रवर्णितं व्यक्तमेव. तथा च ‘अनुवादे चरणानाम्’ (२४॥३) इति पाणिनिसूत्रोदाहरणकथनावसरे उदा हतस्य ‘उदगात्कठकालापं प्रलयष्ठात्कठकौथुमम्' इति सप्तमसर्गायिोकार्धस्य महाभा. ष्य-काशिकयोरुपलम्भेन महाभाष्य-काशिकाभ्यामपि प्राचीनमिदं काव्यमिति त्व सारदृशः. वस्तुतस्तु ‘अद्यतन्यां च' इति वार्तिकोपन्यासार्थम् ‘तिष्ठन्तु कठकालापाः ' इत्युदाहरणस्य ‘स्थेणोः' इति वार्तिकोपन्यासार्थम् ‘नन्दन्तु कटकालापा वर्धन्तां कठ कौथुमाः' इत्युदाहरणस्यापि तत्र दानेन महाभाष्यकृतो नैतत्काव्यस्थोकानुवादकत्वम्, किंतु ‘उद्गात्कौमोदपैप्पलादम्’ इति गद्यवत् ‘उद्गात्कठकालापं प्रत्यष्टात्कठकौथुमम्’ इलयस्यापि पद्यगन्धिगद्यत्वमेव. महाभाष्योचकस्य ‘उद्गात्कठकालापम्, ‘प्रख्यष्ठात्कठकौ थुमम्, ‘उद्गात्कौमोदपैप्पलादम्’ इत्युदाहरणत्रयस्य मध्ये उदाहरणद्वयस्य पद्यग न्धित्वात्काव्यकृता तदनुकरणमाश्रित्य समस्यापूर्तिरेव कृता भवेत. अस्य काव्यस्य काश्मीरिकग्रन्थेष्वेव नामोपलम्भात्कश्मीरेष्वपि पुस्तकवैपुल्यादर्शनात्काश्मीरिक एवायं कविर्भवेदिति संभाव्यते. १. युद्धकथावर्णनात्मकत्वेन काव्यत्वम्, क्रमेण सूत्रोदाहरणात्मकतया काशिकादि