पृष्ठम्:रावणार्जुनीयम्.djvu/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० दूरान्तिकाथैः षष्टयन्यतरस्या म् ॥ ३४ ।। दूरं गृहस्य मियमीक्षमाणा ननन्द नारी प्रमदेन काचित् । दूरं तथासौ भवनाच कान्तां तुल्योऽनुरागो हि पदं स्मरस्य ॥ ४४ ॥ अन्तिकं परिजनात्सखीजनं संदिदेश दयिताय कामिनी । * सद्मनः स्वयमुपेतमन्तिकं वीक्ष्य तं प्रमदमाप सा हियम् । दूरान्तिकार्थेभ्यो द्वितीया च ॥ ३५ ॥ दूरात्प्रियेण प्रमदोपगूढा स्तनोपपीडं परितोषमाप । एतावदेवेच्छति कामिलोकश्चित्तप्रिया यत्कुरुते प्रियाणि ॥ ४५ ॥ कलङ्कमिन्दाववलोक्य कश्चित्प्रियामुखं चाच्छकपोलटकान्ति । दूरं स मेनेऽभ्यधिकं ततस्तदुणान्तरज्ञे न हि पक्षपातः ॥ ४६ ॥ ससम्यधिकरणे च ।। ३६ ॥ अास्ते मियावत्मनि संमुखीनां मृत्यु भवन्तं च निरीक्षमाणा । दूरे भवानन्तिक एव सोऽस्या यत्तेऽक्षमं तत्कुरु काचिदूचे ॥ ४७ ॥ यस्य च भावेन भावलक्षणम् ॥ ३७ ॥ संध्यागमे या दयितस्य याता सैकाकिनी तद्विरतावुपैति । नीतोऽन्यया नेच्छति किं न दृष्टश्चक्रे वितर्कानिति वीक्ष्य काचित् ॥४८ ॥| षष्ठी चानादरे ॥ ३८ ॥ नार्या रुदत्याः प्रययौ रुषान्यः सख्यां नतायामपि नैव तस्थौ । कृतः प्रियेण प्रणयस्य भङ्गः खल्पोऽपि कोपं कुरुतेऽतिमात्रम् ॥ ४९ ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च॥३९ स्वामी स कायस्य न केवलं मे स्वामी स एको न तु जीवितेऽपि । कायें गतः कोपमथाप्यकायें गच्छानयैनं सखि किं विचारैः ॥ ६० ॥ किं नेश्वरं पश्यसि शीतभासं मां निर्दहन्तं नलिनीमिवेन्दुम् । विध्यन्तमेनं मृगयुं मृगीं वा सखीश्वरं पुष्पशरेषु कामम् ॥ ११ ॥ तमानयेऽहाधिपतिं मयि त्वं यन्नात्मनश्चाधिपतिर्न कुर्यात् । रूपेण दायादमिव स्मरस्य श्रियापि दायादमिवोडुनाथे ॥ १२ ॥ १. ‘खिन्न' क. २. ‘शीतभासाम्’ इति भवेत्,

[२ अ० ३ पा० ६ स०] रावणार्जुनीयम् ४१ प्रभुर्यथासौ मयि तद्वदैनं त्वमानयन्तीह भव प्रभुमें स एव साक्षी मयि वलभत्वे साक्षी च मे विद्धययमन्तरात्मा । १३ ॥ भूयः करिष्यामि न तस्य मानं नन्वत्र कार्ये प्रतिभूर्मयि त्वम् तथौपि किं चिन्तयसि प्रयाहि त्वया समानः प्रतिभूः कुतो मे ॥ १४ ॥ चित्ते प्रसूतेन मनोभुवाहं नये व्यथां कामपि दुर्निवाराम् । इंन्दोः प्रसूतैश्च मयूखपातैस्रायस्व मामानयनेन तस्य ॥ १६ ॥ शक्तासि नैका यदि तत्र यातुं प्रयाम्यहं तेऽद्य ततो द्वितीया । कांचिहुवाणां सहसैत्य कामी तिष्ठत्व(त्वि)यं याम्यहमित्युवाच ॥ ६६ ॥ आयुक्तकुशलाभ्यां चासेवायाम् ॥ ४० () आयुक्तमेनामधुना स्वकान्तमायुक्तमन्यासु रतोपभोगे तदिच्छया धीरमतां वरौ ते काम्याशयज्ञा हि हरन्ति नार्यः ॥ ५७ ॥ मानापनोदे कुशलेन पत्या नारी सचेतीक्रियमाणदेहा । कान्ता स्वदृत्तेः कुशला बभूव कोपः कुतश्चाटु विचक्षणेषु ॥ १८ ॥ यत्तश्च निधोरणम् ॥ ४१ ॥ लब्ध्वा युवानो विहतान्धकारां निशां निशानां परमां सचन्द्राम् । सुहृत्समेता रमयांबभूधुः सयौवनाः स्रीः सुमनोरमायाः ॥ ६९ पञ्चमी विभत्ते ।। ४२ ।। आस्वाद्य दत्तां दयिताः स्वकान्तैः सुरां मधुभ्योऽपि विशेषहृत्याम् जहुः प्रियाणां हृदयानि पीत्वा मदोऽपि दोषानपि संवृणोति ॥ ६० ॥ साधुनिपुणाभ्यामचर्चायां ससम्यप्रतेः ॥ ४३ ॥ यथारैतौ साधुरलं नरेषु तथारैतान्ते निपुणा बभूव अकृत्रिमखेहरता हि नार्यस्तुल्योपचाराः सततं भवन्ति ॥ ६१ ॥ प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥ पानेषु कांश्धित्मसृ(सि)तान्सकान्तान्गोष्ठीभिरन्यान्गुणवत्कथाभिः । चित्तानुवर्तीव सुहृत्समेतांश्चकार लोकानिति शीतरश्मिः ॥ ६२ आयुक्तमेतं मधुन-' इति भवेत्, २-३. 'ग' ख.