पृष्ठम्:रावणार्जुनीयम्.djvu/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्त्वानि यो विष्णुरिवैकवन्द्यः श्रीमानताविष्ट तनुस्थितानि । अतापि यः स्वं च पुरात्मनोचैराप्यायि लोकं च निरीक्ष्यमाणः॥६१॥ अचः कर्मकर्तरि ॥ ६२ ॥ दुहश्च ॥ ६३ ।। अकारि यत्रातिथिपूजनं धनं मनोरमञ्ध खयमालयोऽकृतः । अदुग्ध धेनुः खयमानताङ्गनं मृगी यथाऽदोहि निरीक्ष्य शावकम् ॥६॥ न रुधः ॥ ६४ ॥ अरुद्ध धेनुः खयमस्तबन्धनात्तपखिनां यत्र गृहाङ्गनास्थिता । तपोऽनुभावोपनतामहात्मनां न कस्य संपन्न करोति विस्मयम् ॥ १७ ॥ तपोऽनुतापे च ॥ ६५ पूर्वं तपोभिः कृततीव्रवेदनः पश्चात्क्रमेणास्तशरीरपाटवः । चिण्भावकर्मणोः ॥ ६६ ॥ यत्रासि नर्तितविकीर्णकपोलभाजा कान्तायुतेन पटुनेक्षित तोयदेन हंसव्रजेन नलिनीवनन्दितेन यस्मिन्ननर्ति मधुरं भृशरञ्जितेन ॥ ६९ ॥ पुलिनपृथुनितम्बां हंसचारुः प्रयाताम् । युवतिमिव मनोज्ञां तस्य वंशप्रसूता मथ सरितमपश्यन्नर्मदां नैवतेशः ॥ ७० ॥ इति रावणार्जुनीये महाकाव्ये प्रख्य(तृतीयाध्यायप्रथम)पादेऽष्टमः सर्गः ॥ ८ ॥ नवम सर्गः (सार्वधातुकाधिकारः ।) सार्वधातुके यक् ॥ ६७ ॥ अवलोकयता यदास्यतारादशवक्रेण नदीं तदा शुकेन समभास्यत वाक्यमित्थमीशः प्रियतामेति हि चित्तविन्न कस्य ॥ १ ॥ [३ अ० १ पा० ९ स०] ५७ कर्तरि शप् ॥ ६८ ॥ दिवादिभ्यः शयन् ॥ ६९ ॥ इयमद्रिपतेः सुरापगेव प्रभवत्यम्बुविधूतलोकपापा । पवनोच्छलितैर्जलैः स्पृशन्ती तटजातैः सह दीव्यतीव वृदैः ॥ २ ॥ भ्रमतीव करी पयः पिपासुस्तमनुभ्राम्यति कर्णतालुनुन्नः । भ्रमरे मदवाञ्छयास्तपद्म क्रियते केन न दुर्लभे विलासः ॥ ३ ॥ आक्रामति मत्स्यमुग्रनक्रो मकरः क्राम्यति नक्रमतुकामः बलवान्बलवत्तरस्य गम्यः पयसीह च्युतभूभृतीव राष्ट्र । त्रुटति प्रसृतिर्न वारिणोऽस्या न त्रुट्यत्युदके तु पद्माषण्डः । न च पद्मवने विनात्र हंसान्न च हंसः स्मरतीह मानसस्य ॥ ५ ॥ कुरुते()तमतिप्रसद्य नैनां दुरितं त्रस्यति स(म)जतोऽत्र पुंसः । मैनुषोऽभिलषत्कृती सदैनामभिलष्यन्ति तमीक्षतेऽपि योऽमुम् ॥ ६ ॥ यसोऽनुपसर्गात् ॥ ७१ ॥ संयसश्च ॥ ७२ ॥ संयसति पलायितुं द्विपेन्द्रस्तं संयस्यति हन्तुमेष सिंहः । वपुषातिमहान्तमल्पकायो न हि शौर्य गणयत्यरेर्महत्त्वम् ॥ ७ ॥ खादिभ्य: इनुः ॥ ७३ ॥ श्रुवः श च ॥ ७४ ॥ स चिनोति शुभानि यः शृणोति प्रवरायाः सरितो गुणानमुष्याः । परिपश्यति यः पुनः सदैनां पुंरुषार्थः कृत एव तेन मन्ये ॥ ८ ॥ अक्षोऽन्यतरस्याम् ॥ ७५ ॥ तनूकरणे तक्षः ॥ ७६ ।। अक्ष्णोति वपुः शुभेन दृष्टया चित्तान्यक्षति देहिनां मुदा च । निस्तक्षति नांशुमान्पयोऽस्या न च तक्ष्णोति पुरः सरोरुहाणि ॥ ९ ॥ तुदादिभ्यः श रुधादिभ्यः इनम् ॥ ७८ उः ।। ७९ नलिनीं वनकुञ्जरं तुदन्तं रुन्धन्वारिकरी समेत्य रुष्टः । वितनोति रणं परैरलङ्कचं कथयन्देशवलं तवेश नद्याम् ॥ १० ॥ २. ‘त्रसति' इति भवेत्. ३. ‘मनुजोऽन्यलष' इति भवेत्. . ‘वारणः' ख. ७० ७७