पृष्ठम्:रावणार्जुनीयम्.djvu/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ५ |१ | अनुष्टुप् | २५६ त्रिष्प् १३४ | |३| पङ्गि |१०२४ ८३१| ७ ||३| |४| बृहती ||५१२| | १६५ |४| १०२४ ४१ १०२४ २०४८| ६८८ छन्दोनाम ४ || १ | बृहत्ता w, , इमानि त्रीण्यपि विषमच्छन्दोनिबद्धान्येवेति ज्ञेयम् । १६५ ८४४ काव्यमाला ।

काश्मीरिकश्रीभट्टभीमविरचितं अर्जुनरावणीयं वा महाकाव्यम् । गाडुटादिपादे (प्रथमाध्यायद्वितीयपादे) प्रथमः सर्गः । श्रीमानभूद्भपतिरर्जुनाख्यः कृती कृतज्ञः कृतवीर्यसूनुः । आलोक्य यं सिंहमिवाजिभाजं ननाश शत्रुर्गजनाशमाशु ॥ १ ॥ गाङ्कटादिभ्योऽपिणन्ङित् ॥ १ ॥ यस्याध्यगीष्टाध्ययनेन तुल्यं लोकोऽयमुचैश्चरितं पुनानम् । युद्धेषु पीनायतबाहुदर्श शत्रुव्रजः संकुटितुं प्रनष्टः ॥ २ ॥ विज इट् ॥ २ ॥ विभाषोणः ॥ ३ ॥ वोद्वैः स्मृतेरुद्विजितुः कुदृष्टेद्विषः सदा यस्य निराकरिष्णोः । सितैर्गुणैः प्रोर्गुवितुखिलोक्या नैवापरं प्रोर्णवितव्यमासीत् ॥ ३ ॥ सार्वधातुकमपित् ॥ ४ ॥ प्रजानुराग कुरुतः स्म यस्य त्यागः क्षमा च क्षतकल्मषस्य । भुजाश्च कुर्वन्ति पुरा सहस्र पारेसमुद्रं वसतिं रिपूणाम् ॥ ४ ॥ असंयोगालिदकित् । ५ ॥ कुतूहलं चिच्छिदतुर्जनानां नालोकितं बा(चा)लपनं च यस्य । महाहृदस्येव पयांसि तृष्णां निचिच्छिदुश्चित्रमहो धनानि ॥ १ ॥ तसकलसूत्राणां लौकिकप्रयोगसाधारणानामुदाहरणतया चिकी र्षितेऽस्मिन्महाकाव्ये ‘गाङ्कटादिभ्यः' इत्यत आरभ्यैव सर्गारम्भः, प्रथमपादेऽप्रख्या ख्यातसूत्राणां साक्षालक्ष्यसंस्कारकत्वाभावेनानावश्यकत्वात्, २. कुटादिव तुदाद्यन्त गणः. ३. ‘बोडुः