पृष्ठम्:रावणार्जुनीयम्.djvu/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चषिदेवतयोः ॥ १८६ ॥ श्रीतः क्तः ॥ १८७ ॥ मतिवुः १८८ ॥ पोत्रेण दंष्ट्रा द्वितयं लवित्रं महीभृतां भूमिभृतां खनित्रम् । वभार यो भूधरणे वराहो मन्येऽस्य राज्ञा सबलेन तुल्यः ॥ १०॥ तमर्चितं भूमिपतिं प्रजानां द्विजन्मनां संयतमेकवीरम् । बुद्धं सुराणामपि राक्षसौ तावपश्यतां वारि परित्यजन्तम् ॥ १५ ॥ दृष्ट्रा विहृत्य सरितस्तटमुत्तरं तं राजहंसमभितः स्थितचारुकान्तम् तूर्ण समेत्य शिबिरं निजमादरेण भन्ने शुकस्तदखिलं कथयांबभूव ॥ १२ इत्यर्जुनरावणीये महाकाव्ये कर्मण्यण्पादे एकादशः सर्गः ॥ द्वादशः सर्गः ॥ उणादयो बहुलम् ॥ १ । भूतेऽपि दृश्यन्ते ॥ २ ॥ भविष्यति गम्यादयः ॥ ३ ॥ यावत्पुरानिपातयोर्लट्र ॥ ४ ॥ विझाषा कदाकह्यः ॥ ६ ॥ ततः शुकादाशु निशम्य वृत्तं तद्भपतेः साधु निशाचरेशः । आगामिनं दोषमचिन्तयित्वा तमुक्तवान्वायुरिवोरुशक्तिः ॥ १ ॥ यावन्न नश्यत्यवनीश्वरोऽसौ पुरा मधु स्वादु च नोपयुङ्गे । प्रयाहि युद्धाय नयास्य पार्श्व कदा प्रयासीति ममात्र चिन्ता ॥ २॥ कदा गमिष्यस्यतिदुःखितस्त्वं कदा च युद्धाय रिपुं ब्रवीषि । कहिँ त्वदुक्तं प्रविधास्यतेऽसौ कर्हि प्रसह्याहवमातनोति ॥ ३ ॥ किंवृत्ते लिप्सायाम् ॥६॥ लिप्स्यमानसिडौ च ॥७॥ को मे रणं दास्यति को ददाति को वा प्रदाता पुरुषोऽरिसैन्ये । खर्गमेष्यत्युपयाति वारी याता मया बाणनिकृत्तकायः ॥ ४ ॥ ‘संमतम्’ इति भवेत्, [१ अ० ३ पा०१२ स०] रावणार्जुनीयम् । स चेदिष्यत्युपयाति वेशस्तथोपयाता बलबद्धगर्वः । एते वयं संभृतशातशस्त्रा वर्धामहे किं बहूनोदितेन ॥ ६ ॥ लिङ्ग चोध्र्वमौहूतिके ॥ ९ ऊध्र्व मुहूर्तादथ चेत्स धीमानेष्यत्युपेयादुपयाति राजा। ततो वयं तेन महासहाया युध्याम हा वीरतमेन राज्ञा ॥ ६ ॥ तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥ १० ॥ भाव वचनाच ॥ ११ ॥ अण कमेणि च ॥ १२ ॥ कर्तु प्रयाहि प्रणतो रणं मे न कारकोऽस्यास्ति समर्थयेद्य । लाभाय गत्वाशु महाहवस्य प्रमोददायो भव मे चिराय ॥ ७ ॥ लट्र शेषे च ॥ १३ ॥ लटः सद्धा ।। १४ । अनद्यतने लुट् ॥ १५ ॥ ७७ राज्यं हरिष्यामि तदीयमद्य श्धो वा स हन्ता मम भूमिपालः । कुतूहूलं तेन समेष्यते मे क्षाध्यो विवादोऽपि समं समेन ॥ ८ ॥ पद्रुजविशस्पृशो घञ् ॥ १६ ॥ स्ट स्थिरे ॥ १७ ॥ पादेन तं हन्मि निहत्य युद्धे तं मे शिरोरोगमवेहि भूपम् । सारं विनेष्यामि महाबलस्य त्यागं विधास्यामि ततो विभूतेः ॥ ९ ॥ भावे ॥ १८ ॥ अकर्तरि च कारके संज्ञायाम् ॥ १९ ॥ पुमानहं वायसानामाहारमेनं तरसानयामि संयति करोम्युपायान्तमुपाश्रितानां पलायनैकाध्ययनस्य वश्यम् ॥ १० ॥ परिमाणाख्यायां सर्वेभ्यः ॥ २० ॥ इङश्च ॥ २१ ॥ भीमयुद्धविध्वस्तपौरुषं विनिर्जिताशेषभूधरम् । एकशूर्पनियाचिनं द्राकरोमि नीत्वा निजां पुरम् ॥ ११ ॥ उपसर्गे रुचः ॥ २२ ॥ समि युदुवः ॥ २३ ॥ सांरावमुचैरहमादधानः सैद्रावसंदावकरं परेषाम् । सें यावदङ्गेषु करोति() भीत्या तोषस्य विद्रावपदं महाजौ ॥ १२ ॥ १. ‘युध्यामहे' इति भवेत्, २. ‘निचाय' इति भवेत्. ३. ‘संराव' इति भवेत्, ‘संयावमहे' स्वात्,