पृष्ठम्:रावणार्जुनीयम्.djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । ११६ ११७ पुंसि संज्ञायां घः प्रायेण ॥ ११८ ॥ गोचरसंचरवहब्रज व्यजापणनिगमाश्च ॥ ११९ । अवे तृस्रोर्घञ् ॥ १२० ॥ दानीयविप्राहितसंनिधानं यत्रार्थिनामर्थितमर्थदायि । सेवागतानेकनरेन्द्रपूर्ण दधार यः शासनमीश्वरस्य ॥ ३८ ॥ येस्याङ्गनालिङ्गनजां सुखातिं छाया सुशीता विदधे जनानाम् । स्फुरन्मयूखमकराण्युवाह रलानि च ध्वान्तविनाशनानि ॥ ३९ ॥ गुणैकधानीह यदेकमूर्तियों गोचरः पुण्यवतां जनानाम् । दरिद्रतां यैत्र न संचरोऽभून्न चावतारः कलिचेष्टितस्य ॥ ४० ॥ हलश्च ॥ १२१ । अध्यायन्यायोद्यावसंहारराधाराः वायाश्च ॥ १२२ ॥ उदङ्कोऽनुदके ॥ १२३॥ जालमानायः ॥ १२४ ॥ खनो घ च ॥ १२५ ॥ आधारमेकं यदुपाश्रिता श्रीर्यत्र्यायरव्रस्य पयोधिमध्यम् । संहारमानाय इवैणकानां यस्येशिता विद्विषतामधत्ताम् ॥ ४१ ॥ सदः प्रविष्टः स कुतो भवान्कारणमत्र किं ते राज्ञेति पृष्टो निजगाद दृतः ॥ ४२ ॥ ईषहुःसुषु कृच्छूट्राकृच्छूट्रार्थेषु खलू ॥ १२६ ॥ कतृकमेः | णोश्च भूकृत्रोः ॥ १२७॥ आतो युच् ॥ १२८ ॥ भाषायां शासियुधिदृशिधृषिमृषिश्यो युज्वक्तव्यः ॥ (वा०) यो दुर्जयो वैरिजनेन संख्ये कृत्वात्मसैन्यैः स्वजयं महेन्द्रम् । त्रासावसीदत्तनुराजिमध्य ईशन्नशो येन कृतः सुरौधः ॥ ४३ ॥ स्वाढ्यंभवं येन चिराय जित्वा धनेशमाक्षिप्तसमग्रवित्तम् । भ्रात्रा दुराढ्यंभवमेव यस्य दुर्यानभाजा हृतपुष्पकेण ॥ ४४ ॥ स्वाढ्यंकरो यः क्षतदेववर्गः शत्रु दुराढ्यंकरमस्य विद्धि दुष्पानमछुप्रवहं पिबद्भिः सुग्लानमस्यारिवधूमुखालै ४९ ॥ १. ‘सवै' स्यात्, २. ‘यत्रा' स्यात्. ३. ‘दरिद्रतायाश्च' स्यात्, ४. ‘सुजयं' स्यात्, [३ अ०३ पा० १२ स०] रावणार्जुनीयम् दुर्दर्शनः शत्रुजनेन राजा दुःशासनो येन न कश्चिदस्ति । दुर्योधनोऽनेकभटानुयातो दशास्यनामाति पुलस्त्यपौत्रः ॥ ४६ वर्तमानसामीप्ये वर्तमानवदा ॥ १३१ ॥ माँ दूतमायान्तमवेहि तस्य त्वमागतं वा क्षितिपालसिंह । यास्यामि कार्यं भवते निवेद्य बुध्यस्खमां यान्तमितो गतं वा॥४७॥ आशासाया भूतवच ॥ १३२ करोति चेत्तस्य करिष्यसे वा भर्तुर्मदीयस्य यदि त्वमिष्टम् । ततः स दास्यत्यथ वा ददाति दत्तानि वा पश्य सुखानि तेन ४८ क्षिप्रवचने लट् ॥ १३ ॥ स चेदिहायास्यति यात्यतस्ते क्षिप्रै करिष्यत्यभिवाञ्छितानि । शक्या तया शक्तिमतां न कृत्यं करोति या नैव सुहृप्रियाणि ॥॥ ४९ अाशंसावचने लिङ् ॥ १३४ ॥ सुहृत्प्रियत्वात्तव भूप चेह समापतेचेत्स निशाचरेशः । संभावयेऽहं तरसैव कुर्यात्त्वदेकयोग्यां सकलां धरित्रीम् ॥ १० ॥ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ॥ १३५ ।। यतः प्रभृत्येष विमुक्तशैशवस्ततः समारभ्य इतोऽपि जीविष्यति यावदूर्जितं विधास्यते तावदरातिसंक्षयम् ६१ येयं गता पञ्चदशी दशास्यस्तस्यां व्यजेष्टाशु समं स युद्धे आगामिनी यापि च पौर्णमासी तत्रापि जेष्यत्यखिलानरातीन् ॥१२॥ भविष्यति मर्यादावचनेऽवरास्मिन् ॥ १३६ ॥ आमेरुतो यो विषयो महीयांस्तस्यावरं यत्तुहिनाचलस्य । प्रभोविजेष्ये तमिति प्रतिज्ञा त्वं चास्य पातेति समाकुलोऽसि ॥१३॥ कालविभागे चानहोरात्राणाम् ॥ १३७ ॥ यदवरमाग्रहायण्या योऽयं नृपायाति वत्सरः । उत्सवं करिष्यते तत्र खामी त्वयेक्ष्यताम् ॥ १. ‘ोकोऽयमादर्शपुस्तकयोः ‘यो दुर्जयो-' इत्यतः प्रागुपलम्भेन ४३ संख्याक वेनोपलब्धोऽपि सूत्रवार्तिकक्रमेण पश्चाद्रक्षितः