पृष्ठम्:रावणार्जुनीयम्.djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ १३८ यत्परं पुनराग्रहायण्याः संवत्सरस्यास्य तत्र सः । यास्यतीश्वरो वनमानन्तुं याता जनोऽप्यस्य पश्यताम् ॥ १५ ॥ लिङ्कनिमित्ते लडू क्रियातिपत्तौ ॥ १३९ नाज्ञास्यदीशः सरिदम्भसि त्वां संक्रीडमानं दयितासहायम् । तोयं भवद्वाहुबलापरुद्धं नापारिष्यद्यदि देवपूजाम् ॥ १६ ॥ भूत च ॥ १४० ॥ भवानयास्यत्वरितं नदीतो नोऽभत्स्यैत त्वां रजनीचेरेशः । सख्यं रणं वा त्वरितं विधेयं पलायनं नाचरितं महद्भिः ॥ १७ ॥ वोताप्योः ॥ १४१ अपि तत्र भवान्भनक्ति पूजां शशिमैौलेः सरिदम्भसा किमेतत् लजां च तथापि नागमिष्यस्तेन त्वमतिगर्हते दशास्यः ॥ १८ ॥ गर्हयां लडपिजात्वोः ॥ १४२ ॥ जातु कोपयति यस्तमीश्वरं निन्द्यतां स समुपैति देहिनाम् । किं पुनर्जगति जातु दुर्मतिर्योऽमुना सहकरोति शात्रवम् ॥ १९ ॥ विभाषा कथमि लिङ च ॥ १४३ ॥ भवान्कथं नाम करोति पापं तथाविधं सर्वजनावगीतम् । कथं च राक्षः स्वजनापवाद मोहं विधत्ते विषयप्रसङ्गः ॥ ६० ॥ किंवृत्ते लिङ्कलटौ ॥ १४४ ॥ अनवकृत्यमर्षयोर | किंवृत्तेऽपि ॥ १४५ का नाम जले विहारचेष्टा येदृक्त्वामपि कारयेदकार्यम् । का वा सरितोऽतिरस्यता सा या पापेऽत्र नियोजयिष्यति त्वाम्६१ किंकिलास्त्यर्थेषु लट् ॥ ॥ १४६ अस्ति नाम त्वद्विरोधो राजा यत्तरिष्यति त्वं सरिजले । किंकिलेदं पीडितं क्रीडां न करिष्यते वारिजन्मनाम् ॥ ६२ ॥ •, १. ‘रम्यता' स्यात्, [३ अ० ३ पा०१२ स०] रावणार्जुनीयम् जोु ८९ त्वां यदा जनाश्च पश्येयुर्खौणं पितृभ्यां समङ्गुलेः ॥ ६३ ॥ यचयत्रयोः ॥ १४८ यचाभ्युपेयाद्वहनं वनान्तं नायास्यदत्रेति भवानभीतिः । नैतत्क्षमं तत्कुरु मित्रमीशं यत्रापतेयुर्न कृते भयानि ॥ ६४ ॥ गहयां च ॥ १४९ यचागच्छेः प्रोज्झ्य शून्यां पुरीं त्वं यचास्रास्यः प्रीतये कामिनीनाम् । नैतन्यायं ज्ञानिनचेष्टितं ते श्रुत्वाप्येतद्यत्र गहॅन्न कस्त्वाम् ॥ ६५ ॥ चित्रीकरणे च ॥ १५० ॥ यचापगां दोष्यरिधैनिरुन्ध्या यञ्च प्रतीपं नृप तामनेष्य । किमदुतेनाप्यमुनेहितेन स्याद्यत्र पीडा जलकूलभाजाम् ॥ ६६ ॥ शेषे लडयदौ ॥ १५१ ॥ उताप्योः समर्थयोलिङ १५२ आरोक्ष्यति पर्वतं यथान्धस्तिग्मांशुश्च विधास्यतेऽन्धकारम् । वक्ष्यत्यतिहितं शुकस्तदा त्वां तुल्यानि प्रतिभान्त्यमूनि राजन्॥६७॥ कामप्रवेदनेऽकचिति ॥ १८६३ ॥ जिघांसितुं लोकमुपागतोऽसौ रिक्षिषुस्तं प्रयतस्त्वमेकः । कामो ममायं न भवेदमुष्मिन्कार्ये विरुद्धे यदि वा विरोधः ॥ ६८ ॥ संभावनेऽलमिति चेत्सिद्धाराप्रयोगे । १९५४ ॥ वेगेन छिन्द्यादपि यो महाद्रीन्महारथस्य व्रजतोऽभ्यमित्रम् । संभावयाम्याशु जयेत्स विश्धं विजेष्यते कः समरे तमीशम् ॥ ६९ ॥ विभाषा धातौ संभावनवचनेऽयदि ॥ १५ ॥ ज्योत्सां न चेदस्य पुरे शशाङ्कः कुर्वीत कृष्णोऽपि महान्धकारम् । संभावयामि ग्रहणातिरिक्तां स प्राप्स्यति प्रत्यहमेव पीडाम् ॥ ७० ॥ १. ‘मन्त्वा' ख.२. ‘स्राणे पित' ख. ३. लोकस्यैवार्थचिन्त्यः.४.‘न्याय्यम्' स्यात्,