पृष्ठम्:रावणार्जुनीयम्.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ काव्यमाला । समुद्रभीतेव यदि प्रतीपं यायान्न रेवा भुजसेतुरुद्धा । ततोऽवगच्छेन्न दशाननस्त्वां जलेन वामेऽद्य कृता प्रतिज्ञा ॥ ७१ ॥ इच्छार्थेषु लिङ्कलोटौ ॥ १५७ ॥ इच्छाम्यहं त्वं यदि तत्र गच्छेरिच्छा तवाप्यस्तु गमायराजन् ।’ इच्छत्वसावप्युपगन्तुमत्र परस्परप्रीतिविधायि सख्यम् ॥ ७२ ।। समानकर्तृकेषु तुमुन् ॥ १५८ ॥ लिङ् च ॥ १५९ ॥ इच्छार्थेश्यो विभाषा वर्तमाने ॥ १६० कामो ममायं नृपते व्रजेयं नो वार्यसे ब्रूहि यदेकमिष्टम् । नेच्छेद्भवानिच्छति नापि गन्तुं न द्वैधचिन्ताः सुधियो भवन्ति ॥७३॥ विधिनिमन्त्रणामस्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् १६१ कुर्याद्दशास्येन भवान्सहैक्यं गृहेऽस्य भुञ्जीत निमज्रयेऽहम् । यथेच्छमासीत कृतासनश्च कुर्यात्किमन्यश्च निबन्धनं ते ॥ ७४ गच्छेद्देशास्यान्तिकमर्थये त्वां गतस्य भद्रं तव तत्र भूप । मित्रं प्रियं तं प्रविधाय मित्रं यथेच्छमासीत भवान्ब्रजेद्रा ॥ ७१ ॥ लोट् च ॥ १६२ ॥ विधेहि तद्वेहगमाय यलमभ्यर्थयेऽहं कुरु तत्प्रियाणि । किमेतु ते ब्रूहि स ध मराजन्नन्योन्यविश्वासमुखं हि सख्यम् ॥ ७६ । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ॥ १६३ ॥ त्वं प्रेषितो वाहि नैयेन राजन्मान्यो विमृश्यो मनसा जनेन । कालस्तवायं ननु किं न गच्छेद्भोगे कृतं प्रीतिकरं हि सर्वम् ॥७७॥ दृश्यः स गत्वा भवता दशास्यः कर्तव्यमस्मात्कुरुते किमन्यत् संचिन्त्यमेतत्सह मन्त्रिणा ते करोति संचिन्त्य कृतं न तापम्॥७८॥ लिडू चोध्र्वमौहूर्तिके ॥ १६४ ॥ मे लोट् ॥ १६ ॥ अधीष्टे च ॥ १६६ ऊध्वै मुहूर्तात्स्वयमेव कार्यं कुर्यात्स राजा समवेतकालम् । परं मुहूर्तात्सें कुरुष्व न त्वं गच्छाम्यहं प्रेषय मां नरेन्द्र ॥ ७९ ॥ १. ‘चित्ताः' खात्. २. ‘र्दशास्य' स्यात्. ३. ‘नयेर्न' स्यात्, ४. ‘त्म' स्यात्, [३ अ०३ पा० १२ स०] ८७ कालसमयवेलासु तुमुन् ॥ १६७ ॥ लिङ् यदि १६८ वेला यातुं वर्तते मे खगेहं कालो युतं वतुमस्मास्तवापि । वेला चेयं यत्स युध्येत राजा युध्येथास्त्वं यश्च सोऽप्येष कालः ८० ओहें कृत्यतृचश्च ।। १६९ ॥ अहोंऽस्ति योद्धा स च तेऽनुरूपः श्लाध्यो विवादस्तव तेन साकम्। कुर्या रणं तेन मैहानवधं भङ्गो जयो वा सदृशेन धन्यः ॥ ८१ ॥ आवश्यकाधमण्र्ययोणिनिः ॥ १७० ॥ कृत्याश्च १७१ सोऽवश्यंकारी त्वां विलोक्येप्सितं ते द्रव्यंदायी वा वश्यतामभ्युपेतः । एवं ज्ञात्वा त्वं कार्यमाधत्ख यत्वं प्रायोमिथ्योतिं कुर्वतेनेश्वरा हि॥८२॥ शकेि लिडू च ॥ १७२ ॥ जयेदयलेन स विश्धमेकः शैक्यः प्रभूतैरपि नो विजेतुम् । उपायनव्यग्रकराः सुरा वा शक्ति वदन्त्यस्य गृहाङ्गनस्थाः ॥ ८३ ॥ आशिषि लिङ्कलोटौ ॥ १७३ ॥ क्तिचत्क्तौ च सं ज्ञायाम् ॥ १७४ निरन्तरं तेन सहास्तु सख्यं क्रियाच तेऽसावभिवाञ्छितानि । संत्राससंक्षिप्तकठोररश्मिश्चन्द्रायते यस्य पुरे पतङ्गः ॥ ८४ ॥ माङि लुङ् ॥ १७५ । स्मोत्तरे लडू च ॥ १७६ ॥ त्वं मा कृथा मानद मय्यनास्थां मा स्म ग्रहीदोषमुपाकृते तु । हितं च मां मा स्म न बुध्यथास्त्वं बुद्धा च ते वृत्तमहं प्रयामि ॥८५॥ इति सपदि गदित्वा प्रस्थितं दूतमारा न्नरपतिरिदमूचे तिष्ठ तावन्मुहूर्तम् । प्रतिवचनमिदानीं याहि नस्त्वं गृहीत्वा न गत इति भवन्तं मा स्म वोचद्दशास्य ॥ ८६ ॥ इत्यर्जुनरावणीये महाकाव्ये उणादिपादे द्वादशः सर्गः ॥ १. ‘सद्दा' स्यातू, २. ‘शक्तः' स्यात्. ३. ‘विजेयः' स्यात्.