पृष्ठम्:रावणार्जुनीयम्.djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४० निमूलसमूलयोः कषः ॥ ३४ ॥ निमूलकार्ष कषति सरित्पूर इव दुमम् । रिपुं समूलकापं च तममुं विद्धि भूपतिम् ॥ १७ ॥ शुष्कचूर्णरूक्षेषु पिषः ॥ ३५ ॥ शुष्कपेषं तृणं मार्गे रूक्षपेषं महोपलान् । यैतः पिनष्टि यत्सैन्यं वेद तदपरः कथम् ॥ १८ ॥ . समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥ ३६ ॥ करणे हनः ॥ ३७ ॥ स्नेहने पिषः ॥ ३८ ॥ निहतो मूलघातं वा जीवग्राहं विगृह्य वा कारिता कृतकारं स प्रतिकूलोऽस्य कः पुमान् ॥ १९ ॥ हस्ते वर्तिग्रहोः ॥ ३९ ॥ खे पुषः ॥ ४० ॥ आधिकरणे बन्धः ॥ ४१ ॥ संज्ञायाम् ॥ ४२ ॥ ग्रंहग्राहं गृहीत्वा ये क्षीणाख्याः समरेऽमुना । चक्रबन्धं स्थिता बद्धाः स्वपोषं पोषिताश्धिरम् ॥ २० ॥ कत्रजीवपुरुषयोर्नशिवहोः ॥ ४३ ॥ वहन्पुरुषवाहं यो जीवनाशं प्रणश्यति । स जीवति परं वीरो यो वास्य प्रणतिं गतः ॥ २१ ॥ ऊध्र्वे शुषिपूरोः ॥ ४४ ।। ऊध्र्वपूरं निषङ्गा बा() ते शरैर्युधि पूरिताः । योऽर्मुना कुंरुते साधे विरोधं धन्विनां रणे ॥ २२ ॥ ऊध्र्वशोषं विशुष्का ये दावलीढा इव दुमाः । अस्य मतापसंतप्ता बाहुच्छायां न ये श्रिताः ॥ २३ ॥ उपमाने कर्मणि च ॥ ४५ ॥ कषादिषु यथाविध्य नुप्रयोगः ॥ ४६ ॥ १. ‘यातम्' स्यात्, २. ‘हन्ता' इति, ‘हत्वा' इति वा स्यात्, ३. ‘समूलघातं” । स्यात्, ४. ‘हस्त-' स्यात्. ५. ‘गृहीता' स्यात्. ६. ‘येऽमुना कुर्वते' स्यात्, ७. ‘क्रियते' ख, ८. ‘ते' स्यात्, [३ अ०४ पा०१३ स०] मृगनाशं न नष्टा ये वीक्ष्यामुं कुपितं युधि । नृपाघातविलायं ते विलीनाः शरतापिताः ॥ २४ ॥ उपदंशस्तृतीयायाम् ॥ ४७ ॥ येऽमुं नमन्ति भूनाथं मौलौ चन्द्रावभासिते । कान्ताधरोपदंशं ते पिबन्ति मधु माधवाः ॥ २६ ॥ हिसाथाना च समानकर्मकाणाम् ॥ ४८ ॥ शस्रघातमरीन्न्नन्ति न भीतान्न नर्ति गतान् । अस्य भृत्या रणे राज्ञः खामिचित्तानुवर्तिन ॥ २६ ॥ सप्तम्यां चोपपीडरुधकर्षे ॥ ४९ ॥ भुजोपरोधमेकं यं बिभ्राणं मन्दराचलम्। स्तनोपपीडमाश्लिष्टा लक्ष्मीः सोम्य समो हरिः ॥ २७ ॥ समासत्तौ ॥ ५० ॥ ये हस्तग्राहमेतेन युध्यन्ते सह ते पुनः । न गताः खगृहं ज्ञात्वा कुर्याद्वैरं महात्मभिः ॥ २८ ॥ प्रमाणे च ॥ ५१ ॥ अपादाने परीप्सायाम् ॥ ५२ ॥ नास्य भृत्याः परैः शक्या द्रष्टुमप्यसिपाणयः । डयङ्गुलोत्कर्षमङ्गानि च्छिन्दाना द्विषतां रणे ॥ २९ ॥ च ॥ ५३ सैन्यनिष्क्राममाधावन्यष्टिग्राहं रणाजिरे युध्यते यस्य लोकोऽयं किं वीरेण सहामुना ॥ ३० ॥ खाङ्गेऽधुवे ॥ ५४ ॥ परिक्रिदश्यमाने च ॥ ५५ ॥ धूक्षेपमौदधान्येष सेवकाय वसुंधराम् तस्य कृत्यस्य युध्यन्ते नोरःपेयं कथं भटाः ॥ ३१ ॥ विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः गृहप्रवेशमात्मीयं संमानयति यो जनम् । परावस्कन्दमाक्रम्य स कथं न विधास्यते ॥ ३२ ॥ १. ‘माददावे(खे)ष' स्यातू.