पृष्ठम्:रावणार्जुनीयम्.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । सामाद्युपायत्रितयावसाने यो दण्डमाविष्कुरुते विवेकी । आते चिरं कामदुघेव धेनुर्बद्धा द्विदान्नी भवनेऽस्य कीर्तिः ॥ १२॥ भेषजाच ॥ ३० ॥ रात्रेश्चाजसौ ॥ ३१ ॥ अन्तर्वत्पतिः वतोर्नुक ॥ ३२ ॥ पत्युन यज्ञसंयोगे ॥ ३३ ॥ विभाषा सपूर्वस्य ॥ ३४ ॥ नित्यं सपत्न्यादिषु ॥ ३५ ॥ यः कीर्यमानं सहते परेषां न शक्तिमान्भूपतिशब्दमात्रम् । अनन्यसाधारणभोगवृतिस्तेनाङ्गना वा पतिवत्न्यसौ भूः ॥ १३ ॥ पूत क्रतोरै च ॥ ३६ ॥ वृषाकप्यग्रिकुसितकुसिदा नामुदात्तः ॥ ३७ पूतक्रतायीमपि हरेदसौ यः किमुतान्यपत्नी दीक्षितस्य गत्वापि वध्यः स महीपतीनां विचारणा का खयमागते तु ॥ १४ ॥ मनोरौ वा ॥ ३८ ॥ वर्णादनुदात्तात्तोपधात्तो नः ॥ ३९ ॥ अन्यतो ङीष् ॥ ४० ॥ पश्येन्मनावीमपि पापचेता यद्येष मन्येऽपहरेद्दशास्यः । पत्या यदीयेन दिशो गुणैौधैः श्येनीकृतास्तत्परिपालनेन ॥ १५ ॥ श्रव ॥ ४१ केशवेशेषु ॥ ४२ ॥ शोणात्प्राचाम् ॥ ४३ ॥ गौरीपतेः प्राप्यवरं वराकीः संत्रासयन्देववधूः सदेवा निरस्यते जानपदीं च वृतिं वध्यो न वा बृत मया स पापः ॥ १६ ॥ हरन्ति ये धान्यभृतां जनानां कुण्डीश्च गोणीश्ध कुशीश्च पापाः । पुरःसरास्तस्य भटा न मिथ्या समानशीला हि भवन्त्यभीष्टाः ॥ १७ ॥ तां विक्रमोक्ति नृपतेर्निशम्य भटा य नारीर्दधानाः पुलकेन मूर्तीर्वनस्थलीषु द्विरदा इवासन् ॥ १८ ॥ १. ‘नागी' इति भवेतू. [४ अ० १ पा० १४ स०] रावणार्जुनीयम् ९९ वोतो गुणवचनात् ॥ ४४ ॥ वह्मादिभ्यश्च ॥ ४५ ॥ पुंयोगाद्ाख्यायाम् ॥ ४८ ॥ बनाय पट्टीं चरतां विदित्वा पैदानिना गीतविशुद्धकीर्तिः । अजीघनन्मेघनिनादधीरं सांनाहिकं दुन्दुभिमाशु राजा ॥ १९ ॥ इन्द्रवरुणभवशवेरुद्रभृडहिमारण्ययवयवनमातुला चायणामानुक् ॥ ४९ ।। दशास्यभङ्गध्वनितच्छलेन तेनानकेनात्रुवता स धीरम् यथा कृतेन्द्राण्यपि संप्रहृष्टा मन्ये भवानी वरुणान्यपीति ॥ २० ॥ ततो भविष्यद्विरहाकुलानां ध्वानश्रुतिं सा पटुरानकस्य । म्लानि हिमानीव सरोजिनीनां चक्रे चिरं वीरविलासिनीनाम् ॥२१॥ निशम्य तं दुन्दुभिनादमन्या विजूम्भमाणं पुरि राजपत्नी । वैधव्यभीता धृतसाञ्जनास्रां कपोलभितिं शबलीमुवाह ॥ २२ ॥ शर्वण्यभीष्ट परिपूज्य देवं पत्युर्महामायुपकण्ठमाप प्रष्टी तथा साक्षतपात्रहस्ता यातास्तथा मङ्गलपाणयोऽन्याः ॥ २३ ॥ क्रीतात्करणपूवोत् ॥ ५० ॥ त्क्तादल्पाख्यायाम् ५१ ततः कृतवानविधिं प्रसादक्रीतिं भटानां समितिं यियासुम् । स्रक्चन्दनोशीरजोविलिप्तीं विलोक्य नारी सहसा विषण्णा ॥२४॥ बहुव्रीहेश्चान्तोदात्तात् ॥ ५२॥ अचिन्तयन्ती नृपकार्यमेका प्रसार्य बाहू दयितस्य यातुः । न जानुभग्रीव चचाल मार्गात्प्रायेण लोकः खहितानुवर्ती ॥ २९ ॥ स्थिता सुनाथेत्यवरुध्य मार्ग सख्या प्रयुक्ता मधुपीतयान्या । कान्तस्य नाचिन्तयदाजिवित्रं मदो विवेकस्य विनाशहेतुः ॥ २६ ॥ खाङ्गाचोपसर्जनादसंयोगोपधात् ॥ ५४ ॥ दृष्टां प्रसीदन्मुखया सपत्न्या कान्तां गलद्वाष्पमुखीं विलोक्य । रणप्रियोऽप्यास्त चिराय कश्चित्प्रियस्य दुःखेन तु को न दुःखी॥२७॥ १. ‘पट्टानिना' ख; ‘पदातिना’ इति भवेत्. २. ‘अजीघत’ इति स्यात्.