पृष्ठम्:रावणार्जुनीयम्.djvu/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वचिलुक्ष्यूतश्च ॥ २४ ॥ वञ्चित्वा कीर्तिरम्बुधौ श्रीरवचित्वेव गृहेषु यस्य तस्थौ। लुञ्चित्वा यो यशांसि राज्ञामलुचित्वा चयनान्यभूत्कृतार्थः ॥ २३ ॥ अर्तित्वाजिं भुजद्वितीयः पर्यन्तं द्विषतां महानृतित्वा । कीत्र्या सितया बभौ परीतश्चन्द्रश्चन्द्रिकयेव यः समन्तात् ॥ २४ ॥ तृषिमृषिकृशेः काश्यपस्य ॥ २५ ॥ तर्षित्वा याचकवर्गमभ्युपेतं यो वर्षन्मेघ इवाकृतास्ततृष्णम् । यस्येन्द्रः सोमपिासया तृषित्वा यज्ञेषु प्रत्यहमापतत्सदैव ॥ २५ ॥ मर्षित्वा सागसां प्रणत्या यश्चक्रे द्विषतां परां विभूतिम् । युद्धाय पुरः समागतानाममूषित्वा विशिखैर्निनाय नाशम् ॥ २६ ॥ नेशुः सभुवः सबन्धुभृत्याः कर्षि(श)त्वा भयचिन्तया द्विषन्तः । सुहृदः पुनरस्य भीमशत्तेरकृषि(शि)त्वा समुदः पुरेषु तस्थुः ॥ २७ ॥ रलो व्युपधाडलादेः संश्च ॥ २६ ॥ द्योतित्वा शत्रवोऽपरस्मिन्दृष्टा यं युधि नेशुरद्युतित्वा । दिद्योतिषयात्मनः सुदीना दिद्युतिषां समवलोक्य यस्य काये ॥ २८ ॥ (अष्टाविंशस्या कुलकम् ) अपृक्त एकाल्प्रत्ययः ॥ ४१ ॥ यस्यां नभःस्पृग्वलयाधि(द)माला विशुद्धिभाग्बिम्वमनुष्णरश्मेः । उपाययौ सा शरदूढसस्या तत्र क्षमां रक्षति भूमिनाथे ॥ २९ ॥ तत्पुरुषः समानाधिकरणः कर्मधारय ॥ ४२ ।। प्रकाशिताशेषमनोहराशं बितामसं व्योम निशाकरेण । धनापदापातविवर्जितेन क्षमाभृतेवोत्तमराज्यमापे ॥ ३ १. ‘शतमागसां’ इति पाठो भवेत्. २. ‘यो युद्धाय' इति भवेत्. ३. अत्र ‘ऊकालो- । ऽज्झखदीर्घशुतः (१॥२॥२७) इत्यादिसूत्रेषु चतुर्दशसु केषांचित्संशासूत्रत्वेन केषांचित्के- । • बलवैदिकत्वेन लौकिकविशेषलक्ष्यासाधकत्वमवगस्य नोदाहरणं प्रदर्शितम्, एवमभेऽपि. स०] रावणार्जुनीयम् प्रशमनिदिष्टं समास उपसर्जनम् ॥ ४३ ॥ एकविभ क्ति चापूर्वनिपाते ॥ ४४ ॥ कृत्तडित्तसमासाश्च ॥ ४६ ॥ प्रसतिभाजाछामनोज्ञदृष्टया तटोपरोधं सरिता समेतः । इंसत्रज्ञः प्रीतिमवाप पुर्वी विलासिवृन्दासिकयेव कामी । ३१ ॥ कgश्रिता वीतमदा मयूरा मही च निष्कर्दमराशिरासीत् । केतौ मुदा संप्रति हंसनादः पपौ च पाद्म मधु षट्टदाली ॥ ३२ ॥ हस्वो नपुंसके प्रातिपदिकस्य ॥ ४७ ॥ गोत्रियोरुप सर्जनस्य ॥ ४८ तोयं नदीनामनुि व्यतीतं बभूव नाबा सुतरं जनेन । भेजे ब्रजं पुष्टगुमात्तशोभं गोपी मथाकर्षणसान्द्रघोषम् ॥ ३३ ॥ कक्तडितलुकि ॥ ४९ प्रावृषिकन्यकोपवासा निवृत्ताः सम(मा)मलकादिवन्यभूषाः । चन्द्रांशुव्रातविधूतान्धकाराः प्रारब्धाः संप्रति कौमुदीप्रचारा ३४ इन्द्रोण्याः ॥ ५० ॥ क्षेत्रभूमिः पश्चगोणिरपि शतगोणिरासीन्महाफला । तत्र पाति पार्थिवे कृतवीर्यसूनैौ कृतात्मनि ॥ ३१ ॥ लुपि युक्तवद्यक्तिवचने ॥ ५१ ॥ विशेषणानां चा जातः ॥ ५२ ॥ अङ्गाः कलिङ्गाः कुरवोऽथ मत्स्या देशास्तथान्ये नबसस्यभूत्या । प्रहृष्टसंपुष्टसमग्रलाका नृपाज्ञया वा शरदा क्रियन्ते ॥ ३६ ॥ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥५८॥ आनीयमानेऽन्तिकमेव वेगाच्छूत्कारमभ्रध्वनिना शुकौधे । विमुच्य शालीन्भयलोलनेत्रा स्वत्राणमूढाजनि शालिगोपी ॥ ३७ ॥ मा मां न पासिष्ट शुकावलिभ्यः केदारपद्मालिकृ(रु)तच्छलेन । फलोरुभारान्नमितोत्तमाङ्गः कृषीवलानर्थयति स्म शालिः ॥ ३८ ॥ १. ‘प्रावृषिक-' इति पूर्वाधे छन्दचिन्त्यम्, अथेऽप्यस्फुटः. केवलम् ‘आमलक' इति पदं तु'लुक्तद्धितलुकि'इति सूत्रोदाहरणतया भवेत्. २.“निर्तृत्ताः' क. ३. ‘शाली' ख.