अस्मदो द्वयोश्च ॥ ५९ ब्रवीम्यहं स्वागतमेव हंस बूमो वयं त्वं कुशली मयूर । कलारैबैस्ताविति बहिंसौ परस्परालापमिव व्यधत्ताम् ॥ ३९ ॥ फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ ६० ॥ तिष्यपुनर्वस्वो र्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ ६३ नक्षत्रैः सार्धमपेतमेघरोधैराकाशे शीतमयूखकान्तिकान्ते । अन्योन्यप्रेक्षणतोषमन्वभूवन्फल्गुन्यस्तिष्यपुनर्वसू च मन्ये ॥ ४० ॥ (अथैकशेषः ) सरूपाणामेकशेष एकविभक्तौ ६४ प्रियं किमस्याः शरदो विधेयं व्याघूर्णिकाया विहगप्रलापैः । अक्षा[श्च] वृक्षाश्च तथान्तिकस्थाः परस्परालापमितीव चक्रुः ॥ ४१ ॥ वृद्धो यूना तलक्षणश्चेदेव विशेषः ॥ ६५ ॥ स्री पुंवच ॥ ६६ द्विजाः शुभं प्राप्य वनान्तवासं संश्रूयमाणश्रुतिमन्द्रघोषम् । विशुद्धपक्षाः प्रसवैरुपेता गांश्च वत्साश्च तदा विरेजुः ॥ ४२ ॥ ६७ चकार कान्तारहितं समेत्य या प्रीतिभाजं शरदाशु हंसम् । नाविप्रयुक्तावपि सा मयूरौ सर्वत्र हेतोर्न समा हि वृत्तिः ॥ ४३ ॥ भ्रातृपुत्रौ स्वस्मृदुहितृभ्याम् ॥ ६८ ॥ हंससंहतिरपातमानसा सारसीयनिवहः कलारव । दीर्घिकामजह(हि)तां पयःप्रदां भ्रातराविव चिराय मातरम् ॥ ४४ ॥ कायोद्भवां सस्यविभूतिमेकां वृक्षत्रजं कोमलपत्रमन्यम् । उभाविमौ विश्वजनीनवृत्ती पुत्राविवासाद्य मही विरेजे ॥ ४५ ॥ नपुसकमनपुरुसकनकवचास्यान्यतरस्याम् ।। ६९ ॥ नभोऽस्तमेधं विमलः शशाङ्क एतद्विलोक्यात्मजिगीषयेव । नदी सपद्मा पुलिनं सहंसमेते परां तेपपेततुरात्मशोभाम् ॥ ४६ ॥ पिता मात्रा ॥ ७० ॥ स०] रावणार्जुनीयम् रलाभैकनिमित्तभूतौ क्रमेण संवर्धनमादधानैौ विरेजतुः सस्यतनूद्भवस्य क्षमापयोदौ पितराविव खैौ ॥ ४७ ॥ -वशुरः श्वश्रवंा ॥ ७१ ।। वेिपङ्कमिन्दु शरदं सहंसां विजूम्भमाणौ शिखिनी समेतौ । अधोमुखी वीतमना सलज्जा हियेव दृष्ट्रा श्वशुरौ बभूव ॥ ४८ ॥ त्यदादीन् िमनित्यम् ॥ ७२ । ग्राम्यपशुसंघेष्वत रुणषु स्त्रेा ॥ ७३ ॥ ये ते महोक्षा गुरुभारवाहा या ता(स्ता)श्च गावो बहुदुग्धदोहाः । कृषीवला गोष्ठमहीनिषण्णास्तास्ताः समुद्दिश्य दधुर्विरोधान् ॥ ४९ ॥ अलंकरिष्णुर्निजसंपदा भुवं निराकरिष्णुर्जलबाहसंहाँ प्रसादरोचिष्णुशशाङ्कमण्डला शरजजूम्भे विचरिष्णुसारसा शशिविमलमुखां तां बाणबद्धावतंसां शरदमिव मनोज्ञां कामिनीं वा विदित्वा । व्यधित गमनबुद्धिं द्रष्टमिच्छन्दिगन्ता नृपतिरधिकृताय प्रज्ञवेयच्छदाज्ञाम् ॥ ११ ॥ इति महाकविश्रीभट्टभीमकृते रावणार्जुनीये महाकाव्ये गाष्टादिपादे प्रथमः सर्गः भूवादिपादे (प्रथमाध्यायतृतीयपादे) द्वितीयः सर्गः । अथावरेणाब्दवदावृताम्बरो बहिर्गुहादुन्मदबर्हिणश्रुतः । नृपस्य वन्दारुशतेरितस्तुतेः प्रयाणशंसी पटहः समाहतः ॥ १ ॥ अनुदात्तांडेन्त आत्मनेपदम् ॥ १२ ॥ गृहोरुभित्तिप्रतिशब्दमूच्छितं शयालुनिद्रालुबिोधकारणम् । तमाशु यात्रामभिलाषुको जनः खनं निशम्यास्त न कश्चिदक्रियः ॥ २ ॥ भावकर्मणोः ॥ १३ ॥ कर्तरि कर्मव्यतिहारे ॥ १४ ॥ समङ्गलेनास्यत भूपतेः पुरः सभूषणेनाक्रियतास्य मण्डनम् । विपर्ययेणाशु नियोगकारिणस्तदा जना व्यत्यभवन्त संभ्रमात् ॥ ३ ॥
पृष्ठम्:रावणार्जुनीयम्.djvu/७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति