पृष्ठम्:रावणार्जुनीयम्.djvu/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला पुरा रुषा ये व्यतिजघुरुद्धताः प्रयाणकाले । नृपवाक्यसान्त्वताः प्रकाशमेकैकगृहाणि मत्सरं व्यपोहितुं ते व्यतिजधु(ग्मु)रादृताः ॥ ४ ॥ इतरेतरान्योन्योपपदाच ॥ १६ ॥ परस्परोपपदाचेति वक्तव्यम् । वा० गङ्गावासं नृपतिभटजनः संस्थाप्याश्वानजिरभुवि तत कान्तोपेतः सपदि च मदिरामन्योन्यस्य व्यतिपिबति पुरा ॥ १ ॥ यथैव रलानि नृपस्य भूषणं तथैव तेषामपि भूषणं नृपः । परस्परस्य व्यतिचकुरायताममूनि लक्ष्मीं जननेत्रकौमुदीम् ॥ ६ ॥ नेर्विशः ॥ १७ ॥ परिव्यवेभ्यः क्रियः ॥ १८ ॥ मनःप्रविष्टोऽपि विभूषितः प्रभुर्मनांसि लोकस्य पुनन्यैविक्षत । स युद्धवीथ्यां परिचिक्रिये शरैषिां यशांसीन्दुविनिर्मलानि यः ॥७॥ स कल्पितं वाजिकरेणुकुञ्जरं न्यवेद्यतागत्य नृपाय सैनिक विचिक्रिये वैरिजनैर्वरूथिनी नरेन्द्रहस्ते स्वपराजयेन यत् ॥ ८ ॥ विपराभ्यां जेः ॥ १९ ॥ न धारयः शेष इवावनेर्तृपः स्मरं विजिग्ये कृतदेहमण्डनः । अयोज्य(ध्य)मेकं गुरुविग्रहथितं वशी पराजेष्ठ यथारिमण्डलम् ॥ ९ ॥ अाडो दोऽनास्यविहरणे ॥ २० ॥ सरलपर्याणखलीनभूषितं विवल्गनाभुझखुरक्षतक्षितिम् । स सान्त्वनास्फालनमुक्तचापलं तुरङ्गमं रोढुमुपाददे नृपः ॥ १० ॥ क्रीडोऽनुसंपरिभ्यश्च २१ ।। ध्वनन्मृदङ्गं प्ठतिलम्बितासनं नृपेऽधिरूढे विधृतोष्णवारणे । क्षमोपपीडं चलचारुचामरो हरिः समक्रीडत वल्गुवल्गितैः ॥ ११ ॥ दृष्ट्रा क्रीडन्तं वल्गुवल्गा नृपाणामन्वक्रीडन्त क्रान्तपृथ्वीविभागाः । चित्रं मन्येऽहं भावनीया यदश्वाः पर्यक्रीडन्त व्योम तेनावतीर्य ॥ १२ ॥ १. पूर्वाधत्तरार्धव्ययासेन पाठः सुगमः २. ‘व्योमनीवाव’ इति पाठो भवेत्, २२ प्रकाशनस्थेयाख्ययोश्च ।। २६ । उदोऽनूध्र्वकर्मणि ।। २४ ॥ उपान्मन्त्रकरणे ॥ २५ ॥ अकर्मकाव ॥ २६ ॥ प्रतिष्ठमाने नृपतौ कुतूहलाट्टहे न काचित्समतिष्ठताङ्गना। नचावतस्थे गुरुतोऽपि शङ्कया व्यतिष्ठतागत्य नरेन्द्रवत्र्मनि ॥ १३ ॥ नृपक्षणव्याजकृतातिगण्डनाः पतिष्वतिष्ठन्त वराय कन्यकाः । कुतूहलाक्षिप्ताधयोऽपरा नृपं दिदृक्षया देवमिवोपतस्थिरे ॥ १४ ॥ उपास्थितैकाभरणेषु गत्वरी यथासुखं धाम्न्युदतिष्ठतापरा । उद्विभ्यां तपः ॥ २७ ॥ श्रिया वितेपे नृपधामनि प्रभुर्यथा वियत्युत्तपते पुना रविः ॥ ११ ॥ अाङो यमहनः ॥ २८ ॥ नितम्बभारस्खलितत्वरागतिः खचेतसायच्छत काचिदङ्गना । उरः समभ्याहत पाणिनात्मनो मया न दृष्टः पतिरित्थमाकुला ॥ १६ ॥ समो गम्यूच्छिप्रच्छिस्वरत्यतिश्रुविदिभ्यः ॥ २९ ॥ नितम्बभाराकुलितापि कौतुकाद्यियासयान्या समगच्छताङ्गना । स्तनोरुभारश्रमसैङ्गगामिनी प्रयास्यती संविविदे न कामिनी ॥ १७ ॥ न संपपृ()च्छे गमनाय सत्वरा बिलासिनी संददृशे न चापरा । नराधिपालोकनसक्तमानसा सकौतुका संशशृणुते स्म नाध्वनि ॥ १८ ॥ पुनैर्नुवाना()मिव दक्षिणां शिवामचिन्तयित्वा जननीमभूषिता नृपेक्षणाक्षिप्तमना विलासिनी यियासुरापृच्छत नापि वलभम् ॥ १९ ॥ ह्यः ॥ ३० ॥ १. ‘मन्द’ इति भवेत्. २. ‘संपपृच्छे' इत्यत्र पकारोत्तराकारस्य. गुरुत्ववारणाय शाखाप्राप्तमपि संप्रसारणं ‘पृ' इत्यत्र कृतम् इति पुस्तकद्वयेऽप्युपलब्धम्. तथापि प्रशब्दे परतः ‘गृहीतप्रत्युद्भमनीयवस्रा'इल्यादौ लघुतायाः खीकारेण शास्रसिद्ध संप्रसारणरहित मेव रूपं कविना प्रयुक्तमिति प्रतीयते. ३. ‘पुरानुवानामिव' इति भवेत्,