पृष्ठम्:रावणार्जुनीयम्.djvu/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ बलाहकाभान्मुसलायताङ्गान् इमशानधूपानिव दुनिरीक्षान् । निरीक्ष्य नागान्गगने विहङ्गान्दिदृक्षया प्रस्तुतचित्रपक्षा ॥ १६ .॥ संख्याविसायपूर्वस्याहस्याहृनन्यतरस्यां डौ ॥११०॥ दूलोपे पूर्वस्य दीघऽणः ॥ १११ ॥ सहिवहोरोद्वर्णस्य ॥ ११२ ॥ कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्न च्छिद्रघुवखस्तिकस्य ॥ ११५ ॥ नहिवृतिवृषिव्यििधरुचि सहितनिषु कौ ॥ ११६ । वले ॥ ११८ ॥ इकः काशे ॥१२३॥ विश्वस्य वसुराटोः ॥ १२८ ॥ मित्रे चषौ॥१३०॥ । जीमूतनीकाशरुचीनि दूरात्पतत्रिराजाः स्फुरदुज्ज्वलाङ्गाः । व्यहे तमांसीव करा हिमांशोर्निन्युर्विनाशं फणिमण्डलानि ॥ १७ ॥ मेघोपगढव्यहनीव नागाः खङ्गाहृतिं सोदुमपारयन्तः । नीरागचित्ता गगनादमुञ्चन्निजां तर्नु वोढुमशकुवन्तः ॥ ९८ ॥ यहेऽपि च संक्षयो न येषां सायाहेऽपि बभूव नैव हिंसा । क्षिमं फणिनां कृतः स ताक्ष्यैः किं वा पक्षवतामसाध्यमस्ति ॥ ६९ ॥ लङ्काधिपतेः पतत्रिवृन्दैर्मत्राकर्णनिशाचरान्निरस्य । दक्षं परिपश्यतो भुजङ्गाः प्रपदादिव पातिता नभस्तः ॥ ६० ॥ मर्माविधा पक्षिगणेन तूर्ण स्फुरन्मणीरुड़िवहोज्ज्वलानि । शिरांसि कृत्तानि भुजङ्गमानां भानीव भान्ति स्म दिवः पतन्ति ॥६१॥ कृषीवलैः प्रावृषि वा गतायां दन्तावलाद्यावयवैर्विकीर्णेः । संरुद्धनिःशेषतला धरित्री भुजङ्गमैस्तैर्वितता विरेजे ॥ १२ ॥ विश्वामित्रादिविप्रयुक्त विचाराजि विलोकयत्यदूरात् । राशिः फणिनां पतत्रिवृन्दैरगुणानामिव संचयो विनष्टः ॥ ६३ ॥ कुवैस्तुरासाहमुपेततोषं हत्वा तुरङ्गांश्चतुरोऽपि दक्षान् । चिच्छेद चापं ध्वजमातपत्रं राजा दशास्यस्य ततः शरेण ॥ ६४ ॥ १. ‘गूढे' स्यात्. २. ‘र्दात्रा' स्यात्. ३. इदं दीर्थोदाहरणं िचन्यम्, राहूपाभावेन [१ अ०४ पा०२० स०] रावणार्जुनीयम् १९९ अवनितलमुपेतं व्यर्थयानं दशास्यं • धृतशतकरवालद्योतिनं वीक्ष्य राजा । त्वरितमवततार स्यन्दनात्सोऽपि पृथ्व्यां विदधति हि महान्तः कस्य वा नानुवृत्तिम् ॥ ६६ ॥ इत्यर्जुनरावणीये महाकाव्ये अलुगुत्तरपादे (षष्ठाध्यायतृतीयपादे) एकोनविंशः सर्गः । (षष्ठाध्यायचतुर्थपादे) विंशः सर्गः । अङ्गस्य ॥ १ ॥ हलः ॥ २ ॥ नामि ॥ ३ ॥ न तिसृच तसृ ॥ ४ ॥ नृ च ॥ ६ ॥ नोपधायाः ॥ ७ ॥ सर्वनाम स्थाने चासंबुद्धौ ॥ ८ ॥ सान्तमहतः संयोगस्य ॥ १०॥ अमृनतृचस्वस्टनभृनेष्टत्वष्टक्षत्तृहोतृपोतृप्रशास्तृणाम् ११ इन्हन्पूषायेम्णां शौ ॥ १२ ॥ आहूतः सपदि पतिर्महीपतीनां योदृणां परममतः परेण युद्धे । विद्यानां स चतसृणामपि प्रयोक्ता भेत्ता वाप्यथ तिसृणां पुरां पिनाकी १ तं नृणां पतिमवलोक्य शत्रुभाजी पञ्चानामपि वशभाजमिन्द्रियाणाम् । राजानां पिशितभुजां रणाय राजा यलं स दुतमकरोन्महान्महान्तम् २ तेजांसि क्षितिरजसा रवेर्विधुन्व न्सहष्यत्रजानेचरदृश्यतशः । सानन्दं त्रिदशदृशां निपेतुरापो नप्तारं मुहुरभितः स्म हेहयस्य ॥ ३ ॥ होताम्रीन्मुनिनिवहः कर्ता शुभस्य त्वष्टा च प्रचुरसुरान्वितः सैखङ्गाम् वल्गन्तं ददृशुरमी निशाचरेशं संत्रस्ता दिवि भुवि यस्य न प्रैशाखेतेः ॥ ४ ॥ स्वसापि कान्तेव हितं यदूचे चक्रे न तद्यो विदधन्मदान्धः । सभासयामास सतां मनांसि युतार्यमाणीव दिशां मुखानि ॥ १ ॥ १. ‘राजानं' स्यात्, २. ‘सखहम्' स्यात्. ३. ‘प्रशास्ता' स्यात्,