पृष्ठम्:रावणार्जुनीयम्.djvu/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला प्रभूतदण्डीनि सट्टत्रहाणि प्रलीनपूषाणि बलानि भीत्या । सुखं विजिग्ये दिवि योऽमराणां स कार्तवीर्ये स्खलितो दशास्यः ॥६॥ सौ च ॥ १३ ॥ अत्वसन्तस्य चाधातोः ॥ १४ ॥ छत्री दिविवृत्रहा सपूषा वल्गन्तं दशवक्रमीक्षमाणः । स्मृत्वा समरं जगाम भीतिं प्रायः पश्यति भीतिमान्भयानि ॥ ७ ॥ धनवानपि वीतपुष्पकः स गदावानपि वीक्ष्य रावणम् विमनाः समजायत द्रुतं कृतभीतेर्न बिभेति कोऽथवा ॥ ८ ॥ अनुनासिकस्य किब्झलोः कृिति ॥ १५ ॥ अज्झन गमां सनि ॥ १६ ॥ तमशान्तमतिं प्रशानधीशः प्रमिमीषु रुषमात्मचेष्टितेन । नामाधिजिगांसमानमुचैः प्रजिघांसन्तमवारयत्सलीलम् ॥ ९ ॥ तनोतेविभाषा ॥ १७ आधुन्वलुरुकरचक्रचक्रवालं भीमसिं सपदि तितंसुरात्मकोपम् । खां शक्ति रणभुवि संतितांसितारिः संनद्धः क्षितिपतिना पुरःसरेण १० क्रमश्च त्वि ॥ १८ ॥ क्रान्त्वाशु“() यथा मरुद्धरित्रीं त्वा तद्वदसौ नराधिपेन रुधे रणशालिना दशास्यो नागेनेव महाबलेन नागः ॥ ११ ॥ च्छूोः शडनुनासिके च ॥ १९ ॥ प्रश्नं स्वजनं चिराय पृष्टा दशवक्रोऽनुमतोऽथ तैः प्रहृष्टः । आधिं विदधे समेत्य धीमानक्षयूरिव वञ्चनैकचेताः ॥ १२ ॥ वक्षस्युरुलोमवर्मगुप्त सावशं समुपेत्य खङ्गयष्टयाम् । युत्वा क्षितिपेन पातितायां रक्तष्ठत्यूरभवन्निशाचरेषु ॥ १३ ॥ ज्वरत्वरस्त्रिव्यविमचामुपधायाश्च ॥ २० ॥ अभितः सेमरद्रुवं प्रयुक्ता रुषिता बासिलता दशाननेन । गुरुविग्रहखण्डिता न रेजे प्रमदेवाकृतकारिणा निवृत्ता ॥ १४ ॥ १. पुष्पकं विमानं रत्नकङ्कणं च. २. ‘क्रन्त्वा ' स्यात्, ३. ‘यत्वा' स्यात् ४. ‘चरेश:' स्यात्. ५. ‘समरस्लुचं' स्यात्, [६ अ० ४ पा०२० स०] रावणार्जुनीयम् संप्रापितयोः समेत्य तूर्ण ताभ्यां व्योमतले महासियष्टोः । शक्ति तडितोरिवेक्षमाणस्रासाज्यनिमुपाजगाम लोकः ॥ १६ १९७ हल उपधायाः कृिति ॥ २४ ॥ दंशसञ्जस्वखां शपि ॥ २५ ॥ रत्रेश्च ॥ २६ ॥ घनि च भावकरणयोः ॥ २७ ॥ अवध्वस्तचर्माभैरणे दशास्यः पुरासिवेगं प्रभनक्ति राज्ञः । भैनक्ति मूर्ति स्म निजं तदीयं समीपमायात्परिरक्षणाय ॥ १६ ॥ अदशद्दशनच्छदं दशास्यः शिरसा क्ष्मापतिना क्षतः प्रविश्य । चर्मा“सजतोऽसिपाणिर्मथितात्मा प्रतिहन्तुमाहितच्छः ॥ १७ ॥ पर्यखजत प्रसह्य कोपस्तमथो पाणिहतं भुजङ्गमं वा । अरजत्स मनांसि बान्धवानां रणरागेण रणाजिरे विवल्गन् ॥ १८ ॥ स्यदो जवे ॥२८॥ अवोदेधौद्मप्रश्रथाहिमश्रथाः ।॥२९ नाञ्चेः पूजायाम् ॥ ३० बद्धस्पदमश्वितं दशास्यं श्लथवेगं तमथो भ्रमन्तमाजौ खेदाहितघर्मवारिविन्दं भीतं ‘वीजदथोहिसद्रथस्थेम् ॥ १९ ॥ स्कन्त्वा युधि ताडितस्य राज्ञा खङ्गेन क्षणदाचरस्य देहात् । स्यन्त्वा रुधिरं निबद्धरागं चित्तं वाकृत मैस्य भूमिपृष्ठम् ॥ २० ॥ जान्तनशां विभाषा ॥ ३२ ॥ भङ्क्त्वेति दशाननं स भक्त्वा यलेनापि तदार्जुनं दशास्यः । नंष्ट्रा करणैर्तृपस्य दूरं नष्टाप्येति पुनः पुरा सवेगम् ॥ २१ ॥ स्खलितप्रसरेण यत्नभाजा पवनेनेव महाबले नरेन्द्रे । भ्रपङ्किरभाजि तेन रोषाद्येनाभञ्जि सुरेश्वरस्य सेना ॥ २२ ॥ शास इदङ्कहलोः ॥३४॥ शा हौ ॥३५॥ हन्तेर्ज:॥३६॥ १. ‘ज्जूर्ति' स्यात्, २. ‘भरणो' स्यात्, ३. उत्तरार्धस्यास्फुटत्वम्, ४. ‘यैजदथो हिमश्रथ' स्यात्. ५. ‘स्तम्’ शोधितपाठः. ६. ‘तस्य' स्यात्.