काव्यमाला को मित्सते गुणानस्य यो दित्सति सदार्थिने । न्यायेन लिप्सते भागं धिप्सत्यज इव श्रियम् ॥ ३६ ॥ नालिप्सते कलेराजौ प्रपित्सुरपि शात्रवम् । गुणैः पित्सन्सतां वीथीं विजेतुं कं नु शिक्षति ॥ ३७ ॥ कीर्तिरुत्पित्समानस्य न वाप्सात कथ जगत् । विवीप्सति न यः कैश्चित्खबलानमिताहितः ॥ ३८ ॥ • नास्य श्रुत्वा कथं वृत्तं जनयेत्सैति विस्मयः । न यो मित्रमुखं शत्रु धिप्सन्तमपि धीप्सति ॥ ३९ ॥ बद्धो रागादिदोषेण सम्य“त्यत्र भूपतौ स्वयमेव जनो मन्ये मोक्ष्यते न तु रावणः ॥ ४० ॥ हखः ॥ ५९ ॥ हलादिः शेषः ॥ ६० ॥ शापूर्वाः खयः ॥ ६१ ॥ कुहोश्रुः ॥ ६२ ॥ न कवतेर्यङिः ॥ ६३ ॥ उरत् ॥ ६६ ॥ द्युतिखाप्योः संप्रसारणम् ॥ ॥ ६७ डुढौकिषुरसौ राजा तिष्ठासति न किं पुनः । जिगीषुरप्यसौ चित्तं चिकीर्षति जनप्रियम् ॥ ४१ ॥ कोकूयित खरोष्ट्रोऽयं सुष्वापयिषतामपि । सेना निरस्यते निद्रां विविद्युतिषदश्विका ॥ ४२ ॥ यावदेवंविधा वाचः श्रृण्वतः पुरयोषिताम् । ववृधे प्रीतिरीशस्य तावदालापमाप सः ॥ ४३ ॥ व्यथो लिटि ॥ ६८ ॥ दीर्घ इणः किति ॥ ६९ ॥ अत आदेः ॥ ७० ॥ तस्माछुड़ द्विहल ॥ ॥ अश्रोतेश्च ७१ ॥ ७२ ॥ भवतेर ॥ ७३ ॥ विशतः कार्तवीर्यस्य विलोक्य पुरसंपदम् । विव्यथे रावणोऽत्यर्थमीयुश्चिन्ताः प्रसह्य तम् ॥ ४४ ॥ १. विशीप्सति' स्यात्. २. ‘कांवि' स्यात्, ३. ‘मोक्षते' स्यात्. [७ अ० ४ पा० २४ स०] रावणार्जुनीयम् । आदन्नान्नानि दत्तानि नापिबत्तृषितोऽप्यपः । • आनशे तं विषादश्च बभूव विमनाश्चिरम् ॥ ४६ ॥ निजां त्रयाणां गुणः श्लौ ॥ ७५ ॥ भृञ्जामित् ॥ ७६ ॥ नेनेक्ति स्म स नात्मानं पुरा वेक्ति तं व्यथा ।
- वेष्टि स्म न कार्याणि मानसं नाकुलीकृत ॥ ४६ ॥
विभर्ति स्म परं शोकं नामिमीताप्ययं सतः । व्यजिहीताहितं मूलादाधिना परितापितः ॥ ४७ ॥ इयर्ति परमं मोहं पित्र्यपरसंपदम् । गृहीतोऽप्यपचारेण भूभृदाभबदाकुल ॥ ४८ ॥ सन्यतः ॥ ७९ ॥ ओोः पुयणज्यपरे ॥ ८० ॥ स्रवति इशृणोतिद्रवतिप्रवतिष्वतेिच्यवतीनां वा ॥ ८१ ॥ प्रविष्ट भवनं भूपे जननापि प्रियाजनम् । दिदृक्षुणा गृहे प्रापे विभावयिषता मुदम् ॥ ४९ ॥ पिावषिषुरात्मानं प्रविश्य भवनं भटः । ववन्दे पितरौ पूर्व ततो न कुलदेवताः ॥ १० ॥ लिलावयिषतान्येन कान्ताया विरहव्यथाम् । स्तनोपपीडमासाद्य सखजे दयिता वपुः ॥ ११ ॥ सिस्रावयिपुरन्योऽपि संमदारुं प्रियादृशौ । प्रविवेश गृहं दूरात्प्रेष्यैः संभ्रमदर्शिभि आनन्दाश्रुच्छलेनान्यः कान्तायाः सहसागत । मानवत्या भटो धैर्य सुस्रावयिषति स्म सः ॥ १३ ॥ प्रेष्यया प्राप्तमात्मानं शिश्रावयिषति प्रिये । उत्तस्थौ कामिनी चान्या शुश्रावयिषया विना ॥ १४ ॥ दुद्रावयिषता दूरं दुर्जनस्य मनोरथान् विपक्षसंनिधौ प्राप्य केनचित्सस्वजे प्रिया ॥ ५५ ॥ २०१