पृष्ठम्:लघुभास्करीयम्.djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितप्रक्रियावाप्तप्रत्यक्षीकृतकालयोः । विश्लेषो यो ग्रहणयोः कालो देशान्तरस्य सः ।। २८ ।। अतीत्य गणितानीतं४ यदा स्यातामुपप्लुती' । पूर्वेण समरेखाया द्रष्टा स्यात् पश्चिमेऽन्यथा ।। ३० ।। देशान्तरघटीक्षुण्णा मध्या भुक्तिर्छुचारिणाम् । षष्ट्या भक्तमृणं प्राच्यां* रेखायाः पश्चिमे धनम् ।। ३१ ।। स्वदेशभूमिवृत्तेन' हत्वा देशान्तरा घटीः ** । षष्ट्या विभज्य लभ्यन्ते योजनानि स्वदेशतः ।। ३२ ।। योजनैर्मध्यमां भुक्ति हत्वा तद्देशजैः सदा' । स्वभूवृत्तेन यल्लब्धं** शोध्यं क्षेप्यं स्वमध्यमे' ।। ३३ ।। देशान्तरघटीभोगप्रक्षेपापचयो विधिः । ऊनाधिकतिथेहेंतुस्तेन दृष्टं न हीयते ।। ३४ ।। मोक्ष्यमाणे तु शीतांशौ* * नाडिकायामिहास्तगे' । । मुक्त्वाऽस्तं* पश्चिमे यातः ** प्राच्या'* प्राहुस्तदा ग्रहः' ' ।। ३५ ।। विपरीतधनर्णत्वे यथा दृष्टा* तिथिर्न सा । अन्यथा प्रक्रियाप्राप्तिर्गत्यन्यत्वं* ग्रहस्य च * ॥ ३६ ।। धनणें स्तस्तिथेस्तस्य3 कालस्येन्द्वर्कयोस्ततः । लम्बनस्यैव* नात्र स्याद्युक्तिर्देशान्तरस्य सा ।। ३७ ।। इति लघुभास्करीये प्रथमोऽध्यायः । [लघुभास्करीये

  • *प्रक्रियाप्राप्त° P. * विश्लेषो ग्रहणं योर्य: B. ॐ काले B. ४ तं is missing

from A. " °प्लुतिः A. ६ भ्रष्टा स्यात्प° A; द्रष्टास्याः प* C. ७ °भुक्तिविचा" B; मध्यभुक्ति° P. ८ भक्तमृणप्राच्या A. * सन्देशभुविवृत्तेन A . १* घटि: A; हत्वा देशान्तरा घटी: is missing from B. **१ हत्वा तद्देशजैः सदा is missing from B. १२ भूवृत्तेन तु य° A; स्वभूवृत्तेन यत् is missing from B. *3 च मध्यमे B.

  • ४ शितांशौ ]P. १५ नाडिकायामथास्तके A. १६ मुक्तास्तं B . १७ पश्चिमे यातं A;

१०मे याताः' B; "भायाताः (C. १०८ प्राच्या: B, C . *** प्रागुदयाद्ग्रहम् A; प्राहुस्तथा ग्रहाः . * दृष्ट्वा A; दृष्टि: C. २१ प्रक्रियावाप्तिर्गद्यवत्व A. २२ तु 10 . ३३ घनणेऽस्तास्थितेतस्य A; धनर्णस्ते तिथेस्तस्या B; ०स्तिथेस्तद्वत्त (C. २४०नस्येव A, B .