एतत् पृष्ठम् परिष्कृतम् अस्ति

१०० लीलावती

अथ वृत्तक्षेत्रे करणसूत्रं वृत्तम्। व्यासे भनन्दाग्नि ( ३३२७ ) इते विभक्ते खवाणसूर्यः ( १२५० ) पारिधिः स सूचना । द्वाविंशति ( २२ ) घ्ने चिहृतेऽथ शलैः (८) स्थूलोऽथवा स्याद्व्यवहारयाग्यः ॥ ४० ॥

उदाहरणम् ।

विष्कम्भमानं किल स्प्त (७) यत्र तत्र प्रमाण्ं परिधेः प्रचदत्व। द्व्याविंशति-( २२) र्यत् परिधिप्रमाणां तद्व्याससङख्यां च सखे विचिन्त्य ॥ १ ॥

न्यासः। व्यासमानम् ७ । लब्धं परिवि मानम् २१ १२३९/१२५० स्थूला वा परि धिर्लब्धः २२ ।।

अथवा परिधितो व्यासानयनायः न्यासः। २२/७

गुणहारविपर्ययेण व्यासमानं सूचनं ७ ११/३१२७ स्थूलं वा ऽ।

अत्रोपपन्तिः । अथ रूपदयासार्धऽर्धपरिधिमानम् =प= ५ ३ १४१२९---भवती- त्येतदर्थं मन्निर्मितचापिर्यात्रकोणगणितस्य १२२ पृष्ठमवलोकनीयम् । अत्रैव स्था नत्रयस्य दशमलतावयवग्रहणेन स्वल्पान्तरात्परिधि =३*१३१६ = ३९२७/१२५० एतेन प्रथमः प्रकार उपवत्या।

अत्रैव यदि स्थानद्वयस्य दशमलववयवो गृह्यते तदाऽतिस्थूला परिधिः = ३°१४२ = २२/७ उपपन्नो द्वितीयः प्रकारः ।

अन्नैवाचार्यादपि सूक्ष्मपरिधिमानार्थे मदीयं चापीयत्रिकोणगणितं विलाकनीयं किमत्र पुनः प्रतिपादनेन ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/११०&oldid=399063" इत्यस्माद् प्रतिप्राप्तम्