एतत् पृष्ठम् परिष्कृतम् अस्ति

लीलावती

अथ राशिव्यवहारे करणसू वृसम् ।

अनणुषु दशमांशोऽणुष्वथ कादशांशः

परिधिनवमभागः शूकधान्येषु वेधः ।

भवति परिधिषण वर्गिते वेधनिघ्ने

घनगणितकराः स्युर्मागधास्ताश्च खर्यः ॥ ३ ॥

उदाहरणम् ।

समभुवि किल रशिर्यः स्थितः स्थूलधान्यः

परिधिपरिमितः स्याद्धस्तषष्टिर्यदीया ।

प्रवद गणक खार्यः किं मिताः सन्ति तस्मि-

न्नथ पृथगणुधन्यैः शूकधान्यैश्च शीघ्रम् ॥ १ ॥

अथ स्थूलधान्यराशिमानावबोधनाय ।

न्यासः ।

परिधिः ६० । वेधः ६ । परिधेः । षष्टांशः १० । वर्गितः १०० । वेध ६ निघ्नः । लब्धtः खार्यः ६०० । अथाणुधान्यराशिमानानयनाय ।

न्यासः ।

परिधिः ६० । वेधः ६०/९९ । जातं फलम् ५४५ ५/९९ ।

अथ शूकधन्यरशिमानानयनाय ।

न्यासः ।

परिधिः । ६० । वेधः १०/३ जाताः खार्यः ६६६ २०/३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१३६&oldid=399116" इत्यस्माद् प्रतिप्राप्तम्