पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/100

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 10] ब्राह्मस्फुटसिद्धान्तपरीक्षाध्यायः 75 [ मध्यगतिखण्डनम् ]

न समा युगमनुकल्पाः कल्पादिगतं कृतादियातं च ॥ ब्राह्मोक्त्तैजिष्णुसुतो नातो जानाति मध्यगतिम् ॥ १९ ॥

[ ग्रहभगणखण्डनम् ]

वास्तवभगणैर्द्युचरो यादृक् तादृङन कल्पितैर्भवति । कल्पितभगणैर्द्युचरो नानाकारस्तथैव स्यात् ॥ २० ॥ भगणाद्यं[क]चतुष्कं कुजस्य भगणेषु दृग्दृगाक्षधियः[८५२२] । शरगुणरसखा[०६३५]न्यथवा द्वीषुशरागा [७५५२] द्विगोदिनन्दा [९२९२] वा ॥२१॥ 

अनया दिशाऽसृजोऽन्ये भगणाः कल्प्यास्सहस्रशोऽन्यस्य ॥ द्युचरस्योच्चस्य तथा परमार्था नात्र केचित्स्यु: ॥ २२ ॥ | भूपरिधिखण्डनम् ]

“भूपरिधिः खखखशराः[५०००]1 स्थूला स्थाण्वीश्वरोज्जयिन्योस्तु । अक्षान्तरेण सिद्धा योजनसंख्या न सम्यगतः ॥ २३ ॥

Text of Ms. A : [19] न समा युगमनुकल्पाः कल्पादित्तं कृतादियातं त्व । ब्राह्मोक्त्तैजिष्णुसुतो नातो जानानि मध्यमतिं ॥ ॥ [20] वास्तवभगणो द्युचरो यादृत्कादृत्कादृं न कल्पितैर्भवति । कल्पितभगणैद्युचर नानाकारस्तथैव स्पात् ।। ।

[2] भगणाद्यं चतुष्कं कुजस्प भगणेषु दृग्दृगक्षधियः

शरगुणरसखान्पथवा द्वीणुशरागा द्विगोद्विनंदा वा । ।

[22] अनया दिशामृजोन्ये भगणाः कल्पास्सहषशोन्यस्या

द्युचरस्पोच्चस्य तथा परमार्था नात्र केचित्स्युः

[23] भूपरिधिः खखशरा स्छताः स्छाणीश्वरोज्जयिन्यासु अक्षांतरेण सिद्धाः योजनसंख्या न सम्पं गतः

Ms. B: 23 a स्छलाः 1. These are words of Brahmagupta. See BrSpSi, i. 37(a).