पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/102

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 10] ब्राह्मस्फुटसिद्धान्तपरीक्षाध्यायः 77 [क्रमोत्क्रमज्याखण्डनम्] जिन[२४]जीवासङ्ग्रहणाद्रसाङ्क[९६]भागो भमण्डलस्य समः । यदभिहितवांश्छरस्तत्र [न] तत्स्फुटो मुनि[७]समस्तस्य ॥ २९ ॥ मण्डलसमभा[गा]नां पुरुषवदाख्यानं [ यत्कृत तेन] । तत्तथा न यतः समं दोर्द्वितयं विशिखः कथं भवति ॥ ३० ॥ नातोऽस्ति ज्यानियमः शरसौक्ष्म्यात्तन्निवर्तनं युक्तम् ॥ सप्तक[७]शरे निवृत्तिजिष्णुसुतस्यैव युक्ततमा ॥ ३१ ॥ [ नतज्याक्षेत्रखण्डनम्] लम्बाक्षज्यानयनेऽतो नतज्याप्रकारवचनं यत् ।

प्रोवाच क्षेत्रफलं जिनजीवासंगतं तदसत् ॥ ३२ ॥

[ग्रहस्पष्टीकरणखण्डनम्] पूर्वाचार्यादृष्टं स्पष्टीकरणं [कृतं] यतस्तेन ।

न भवति दृग्गणितैक्यं गणितसमं गोलबाह्यस्य ॥ ३३ ॥

Text of Ms. A : [29] क्षिनजीवासंग्रहस्पाद्रसांकभागो भमण्डलस्प समः । यदिभिहितवावञ्छरस्तत्र तत्स्फुटं मुनिसमस्तस्प । [30] ममंडलसमभाना परपुरुषवदाख्पातं । तत्तया नियतः समं दोर्द्वितयं विवुधा कथं भवति ॥ ॥ [31] नातोस्ति द्यानियमः शरसौक्ष्म्यादंतिवर्तनं युत्कं । सप्तकशरे निवृत्तिर्जिष्णुसुतस्पैव घुक्ततमा ॥ ॥ [32] लंवाक्षज्पानयनेतो नतज्पाप्रकारवचनं यत् प्रोवाच क्षेत्रफलं जिनजीवासंगतं तदसत् । । [33] पूर्वाचार्यादृष्टस्पष्टीकरणं यतस्तेन न भवति दृगणितैक्यं गणितसमं गोलवाह्मस्प । ।