पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/103

एतत् पृष्ठम् परिष्कृतम् अस्ति

78: वटेश्वरसिद्धान्ते मध्यगत्यधिकारे [ अधिकार: I [भौमचलपरिधिसंस्कारखण्डनम्]

यदि मन्ये संस्कारश्चलपरिधौ भूसुतस्य कि न तथा । 

चंद्रसितादेः कस्मादागमभासात् स्फुटा नातः ॥ ३४ ॥ [शङ्कुच्छायादिखण्डनम्]

दृङ्मात्रमेव कथिता छायासिद्धिर्मदान्वितान्धधिया । प्रज्ञाज्वरप्रलपितं ‘छायानयनानि षट्त्रिंशत्”1 ॥ ३५ ॥ प्राक्[क्षि]तिजेऽपमवलयोदयमानं प्राङ्निरूपितं दृष्टम् ॥ जिष्णुसुतेनान्यत्र तु नातो जानाति तद्भ्रमणम् ॥ ३६ ॥ वास्तववेधादन्यजिजष्णोस्तनयस्य भाविनी भाऽपि । दूरभ्रष्टाऽङ्गुलकैरतोऽस्फुटास्तस्य सर्वोऽपि ॥ ३७ ॥

[कोणसममण्डलशङ्कोः खण्डनम्] कोणसममण्डलनराः पूर्वाह्नि वाऽस्त एव बह्वक्षे । नाशमुपयान्ति तस्याभीष्टस्थाने न वेति शङ्कुमपि ॥ ३८ ॥ Text of Ms. A : [34] यदि मन्ये संस्कारश्चलपरिधौ भूतसुतस्य किं न तथा चंद्वसितादेः कस्मादागमभाशात् स्फुठा नातः [35] दृंमात्रमेव कथिता शछायासिद्धि मंदान्वितोघधिया। प्रज्ञाज्वर प्रवलितं छायाभयतानि षड्भ्रमणं । अस्तिावेधादन्पज्जि ड्त्रिषत् । The portion underlined is wrongly inserted from vss. 36-37. [36] प्रावितिजोपलवलयोदपमानं प्रानिरूपितं दृष्टं जिष्णुसुतेनान्पत्र तु नातो जानाति त्तद्भ्रमणं । । 37 आस्तावेधादन्पज्जिष्णोस्तनयस्प भाविनी भापि । दूरभ्रष्टांगुलकैस्तो स्फुटास्तस्प सर्वेपि । । [38] कोणसममंडलनराः पूर्वाहि वास्व एव वहृक्षे नाशमुपयांति त्तस्याभीष्टस्छाने न वेत्ति शेकुमिति । । Ms. B : 35d °मणं । आस्ता वेधादन्यज्जिष्णोस्तनयस्य ड्त्निशत् 36 d जानीति 38 d नवोत्ते शे° 1. There are words of Brahmagupta. See BrSpSi, iii. 37(d).