पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/105

एतत् पृष्ठम् परिष्कृतम् अस्ति

8o वटेश्वरसिद्धान्ते भध्यगत्यधिकारे [अधिकारः II [चन्द्रसितस्य खण्डनम्।] भानुभुजाविनियोगाच्चन्द्रे शुक्लं प्रदर्शितं तेन ।

नो लग्नभुजानुगतं वेत्ति नु शुक्लं सुतो जिष्णोः ॥ ४४ ॥

[ उपसंहारः।] जिष्णुसुतदूषणानां संख्यां वक्तुं न शक्यते यस्मात् ॥ तस्मादयमुद्देशो बुद्धिमताऽन्यानि योज्यानि ॥ ४५ । एकमपि न वेत्ति यतो जिष्णुसुतो गणित[काल]गोलानाम् ।

न मया प्रोक्तानि ततः पृथक् पृथग् दूषणान्येषाम् ॥ ४६ ॥

नो कालविधि गोलं नो तद्भ्रमणं न चापि प्रत्यक्षम् ॥ गोलानुगत सर्वं भ्रमणवशादज्ञानाद् दशा तस्य ॥ ४७ ॥ [ब्राह्मस्फुटसिद्धान्तपरीक्षाध्यायः दशमः] इति श्रीमदानन्दपुरीयभट्टमहदत्तसुतवटेश्वरविरचिते स्वनामसज्ञिते स्फुटसिद्धान्ते मध्यगतिः प्रथमोऽधिकारः ॥ १ ॥ Text of Ms. A : [44] भानुभुजादिद्यागाश्चंद्रे शुक्लं प्रकल्पितं तेन। तो लग्नभुजानुगतं वेत्ति न् शुक्लं सुतो जिष्णोः । । [45] जिष्णुसुतदूषणानां संख्या वक्तंु न शक्यते घस्मात् तृस्मादुपदेशो बुद्दिमत्तान्पातियाज्यानि । । [46] एकमपि न वेति पतो जिष्णुस्वतगणितगोलानां । न मपा प्रोक्तानि ततः पृथक्पृथग्दूषणान्पेषा । । [47] नो कोलविधि मोले नो तद्भ्रमणं न चापि प्रत्पक्षं । गोलानुगतं सर्वं भ्रमणैवशादशातादस्प । । श्रीमदानंदपुरोयमट्टमदत्तसुतवटेश्वरावेरचिते स्वनामसंज्ञिते स्फुटस्मिद्धांते मध्यगतिः प्रथमोधिकारः ।। u - Ms. B : 47 d भ्रसणैव