पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/118

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: l] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 93 [मन्दपरिधयः] शक्राः [१४] सदलेन्डुगुणा [३१॥३°l दृगगा [७२] द्विभुजाः [२२] सुराः [ ३३] शिवाः [११] स्पष्टाः ॥ रसवेदा [४६] भागाख्या रव्यादीनां मृदुपरिधयः ॥ ५२ ॥ [शीघ्रपरिधयः] त्रिगुणयमा [२३३] बसुविश्वे [१३८] शरर्तवः [६५] खोत्कृतयः [ २६०] तथाक्षिगुणाः [ ३२] । शैघ्रास्त्वमी परिधयो भौमादीनां सन्ति अंशाख्याः ।। 5३ ) [मन्दशीघ्रकेन्द्रे] मन्दतुङ्गरहितो नभश्चरो मन्दकेन्द्रमथ खेचरोनितम् ।

शीघ्रमत्र चलकेन्द्रमुच्यते तत्पदानि भवनैस्त्रिभिस्त्रिभिः ॥ ५४ ॥

[भुजकोटिज्ये तयोः विभिन्न रूपाणि च।]

अयुक्पदे स्तो गतयेययोर्गुणौ भुजाग्रसंज्ञौ युजि येययातयोः । भुजाग्रभागोत्क्रममौर्विकोनिता त्रिमौर्विका वेतरमौर्विका भवेत् ॥ ५५ ॥

Text of Ms. A :

[52} शक्रास्सदलींद्रगुणा दृगगा द्विभुजाः सुराः शिवाः स्पष्टाः

रसवेदा नागाख्या रव्यादीनां मृदुयरिधयः [53] त्रिगुणयमा वसुविश्वे शरर्तवः खोत्कृती तथाक्षिगुणाः । शैघ्रास्त्वमी परधयो भौमादीनां सददशाख्पाः ।

[54] मंदतुंगरहितो नभश्चरो मंदकेन्द्रमथ खेचरोनितां

शीघ्रमत्र चलकेन्द्रमुच्पते तत्पदानि भवनस्त्रिभिस्त्रिभिः ।

[55] अयुक्पदे स्तो गययेययोर्मुणौ भुजाग्रसंज्ञौ युजि येययातयोः ।

भुजाग्रभागोत्क्रममौर्विकोनिता त्रिमौर्विका वेत्तरमौर्विका र्भवत् । । Ms. B: 52 b द्विमुजाः